________________
प्रोकल्प
14011
1
( संखाणे ) ति । सङ्कलित - व्यवकलित-स्कन्धे सुपरिनिष्ठित इति योगः । तच्च छायादिना नगगृहादिमानं । तथा'अर्द्ध तोये कर्दमे द्वादशांशः षष्ठो भागो वालुकायां निमग्नः । सार्द्धा हस्तो दृश्यते यस्य तस्य स्तम्भस्याऽऽशु ब्रूहि मानं विचिन्त्य ॥ १ ॥ ' स्तम्भो हस्ताः षट् इत्यादि । [ क्वचित् 'सिक्खाणे' ति पाठस्तत्र शिक्षाम् अणति - प्रतिपादयतीति शिक्षाणम् - आचारोपदेशकं शास्त्रं । तत्र षडङ्गविश्वमेवाssवेदयति] (सिक्खाकप्पे ) इत्यादि । शिक्षा च- अक्षरस्वरूपनिरूपकं शास्त्रं कल्पश्च - यज्ञादिसामाचारीप्रतिपादकं शास्त्रं, शिक्षाकल्पं तत्र । (वागरणे) तत्र - व्याकरणे ऐन्द्र - पाणि- जैनेन्द्रादिलक्षणशास्त्रे (छंदे) छन्दसि -पद्यलक्षणनिरूपके। (निरुत्ते) निरुक्ते - पदभञ्जने (जोइसामयणे ) त्ति । "अयि गतौ" गत्यर्था ज्ञानार्था इति ज्योतिषाम् अयने - ग्रहादीनां ज्ञाने ज्योतिःशास्त्रे इत्यर्थः । ( अन्नेसु अ बहुसु) अन्येषु च बहुषु (बंभन्नएस सुपरिणिट्ठिए आवि भविस्सई) ब्राह्मण्येषु - वेदव्याख्यारूपेषु ब्राह्मणसम्वन्धिषु ब्राह्मणहि तेषु सुपरिनिष्ठितश्चाऽपि भविष्यति । [ क्वचित् तदनन्तरं 'परिव्वायएस' ति पाठस्तत्र परिव्राजकदर्शनप्रसिद्धेषु ] ( नए) नयेषु - आचारेषु न्यायशास्त्रेषु वेति भाव्यम् ॥९॥
['तं उरालाणमि' त्यादितो 'अणुवूहइ' त्ति पर्यन्तम् ]
तत्र (तं उराला गं तुमे देवाणुप्पिए । सुमिणा दिट्ठा जाव आरुग्गतुट्ठि - दी हाउअमंगल्लकल्लाणकारगा णं तुमे देवाणुपिए ! सुमिणा दिट्ठत्तिकद्दु') तं - यस्मादेवं तस्मादुदारादि < यावत् आरोग्य-तुष्टि-दीर्घाssयु:- मङ्गलकल्याणकारका > विशेषणाः < देवानुप्रिये !> स्वप्नास्त्वया दृष्टा इति निगमनम् । ( इतिकट्टु ) ति इति भणित्वा (भुज्जो भुज्जो अणुवूहइ) भूयो भूयो अनुबृंहयति - अनुमोदयति ॥ १० ॥
Jain Education International
For Private & Personal Use Only.
किरणावली टीका व्या० १
॥ ५० ॥
www.jainelibrary.org