________________
|४९॥
ASIAS
ॐॐASSRIES
(सेवि अणं दारए) तत्र-सोऽपि दारको णमित्यलङ्कारे । (उम्मुक्कबालभावे) उन्मुक्तबालभावः-जाताऽष्टवर्षः। (विण्णायपरिणयमेत्ते) विज्ञातं-विज्ञानं परिणतमात्रं यस्य स तथा। [क्वचित् 'विनयपरिणय'त्ति पाठस्तत्र विज्ञ एव विज्ञकः स चाऽसौ परिणतमात्रश्च-बुद्धयादिपरिणामवानेव विज्ञकपरिणतमात्रः] इह मात्रशब्दो बुद्धयादिपरिणामस्याऽभिन्नत्वख्यापनपरः। (जुव्वणगमणुप्पत्ते) यौवनमेव यौवनकमनुप्राप्तः। (रिउव्वेअ-जउव्वेअ-सामवेअ-अथव्वणवेअ) ऋग्वेद-यजुर्वेद-सामवेद-अथर्वणवेद इत्यादिषु षष्टीबहुवचनलोपावेदानाम् इति दृश्यम् । (इतिहासपंचमाणं) इतिहासःपुराणं पञ्चमं येषां (निग्घंटुछट्ठाणं) निघण्टु:-नामसङ्ग्रहः षष्ठः येषां (संगोवंगाणं) अङ्गानि-शिक्षा-कल्प-व्याकरणछन्दो-ज्योति-निरुक्तयः। उपाङ्गानि-तदुक्तप्रपश्चनपराः प्रबन्धाः। (सरहस्साणं) ऐदम्पर्ययुक्तानां (चउण्हं वेआणं) चतुणां वेदानां (सारए) सारकः-अध्यापनद्वारेण प्रवर्तकः स्मारको वा-अन्येषां विस्मृतसूत्रादेः स्मारणात (पारए) पारगः-पर्यन्तगामी । [(वारए धारए) क्वचित्तत्र वारकः-अशुद्ध पाठनिषेधकः। धारक:-अधीतान् धाररितुं क्षमः।] (सडंगवी) षडङ्गवित्-शिक्षादिविचारकः । ज्ञानाऽर्थे तु पौनरुक्त्यं स्यात् । (सद्वितंत-विसारए) पष्ठिरस्तन्त्रिता अत्रेति-पष्ठितन्त्रं-कापिलीय शास्त्रं तत्र विशारदः । तच्चैवम् –'प्रधानाऽस्तित्वमेकत्व-मर्थवत्त्वमथान्यता। पाराऽयं च तथाऽनैक्यं वियोगो योग एव च ॥१॥
शेषवृत्तिरकर्तत्वं चूलिकाऽर्था दश स्मृताः। द्विपर्यायः पञ्चविधस्तथोक्ताऽऽनचतुष्टयः ॥२॥ कारणानामसामर्थ्य-मष्टाविंशतिधा मतम् । इति षष्टिपदार्थाना-मष्टभिः सह सिद्धिभिः ॥३॥ इति
||४१
Jain Education International
For Privale & Personal use only
www.jainelibrary.org