________________
श्री कल्प
॥ ४८ ॥
व्यञ्जनानि-मपीतिलकादीनि तेषां यो गुणः- प्रशस्तता तेनोपपेतः- युक्तः । ( ' उप-अप - इत' शब्दत्रयस्य स्थाने 'शकन्धवा' दिदर्शनादुपपेत (इति भवति) अथवा सहजं लक्षणं, पश्चाद्भवं व्यञ्जनं । गुणाः- सौभाग्यादयः । (माणुम्माणपमाण) 'जलेनाऽतिभृते कुण्डे प्रमातव्य पुरुपनिवेशने यज्जलं निस्सरति तद्यदि द्रोणमानं भवेत्तदा स पुमान् मानान्वितः कथ्यते इति मानं ।, 'तुलाऽऽरोपितथ यद्यर्द्धभारं तुलति तदोन्मानप्राप्तः । तत्र भारमानं त्वेवम्
'पट्सप पर्यवस्त्वेको गुजैका च यवैस्त्रिभिः । गुञ्जात्रयेण वल्लः स्याद् गद्याणे ते च षोडश ॥ १ ॥
पले च दश गद्याणा-स्तेषां सार्द्धशतं मणे । मणैर्दशभिरेका च घटिका कथिता बुधैः || २ || घटिभिर्दशभिस्ताभि-रेको भारः प्रकीर्त्तितः' इत्युन्मानं । 'स्वाऽङ्गुलेनाऽष्टोत्तरशताऽङ्गुलोच्छ्रयः प्रमाणप्राप्तः ' ।
यदुक्तम्–'अष्टेर्शतं पवतिः परिमाणं चतुरशीतिरिति पुंसाम् । उत्तम-सम- हीनानां स्वदेहसङ्ख्या स्वमानेन ॥ १ ॥ इदं त्वशेषपुरुषानाश्रित्य । तीर्थकृतस्तु विंशत्यधिकशताऽङ्गुलप्रमाणा भवेयुः । यतस्तेषां शीर्षे द्वादशाऽङ्गुलमुष्णीषं स्यादिति प्रमाणं । ततश्च मानोन्मानप्रमाणैः । (पडिपुण्णसुजाय सव्वंग) प्रतिपूर्णानि अन्यूनानि - सुजातानि - सुनिष्पन्नानि सर्वाऽङ्गानि शिरःप्रभृतीनि यस्मिन् । तथाविधं ( सुंदरंगं ) सुंदरम् अङ्ग- शरीरं यस्य स तथा । (ससिसोमाकारं ) शशीवत् सौम्य आकारो यस्य तं । (कंलं) कान्तं - कमनीयम् । (पिअदंसणं) अत एव प्रियं द्रष्टृणां दर्शनं रूपं यस्य । (सुरुवं) अत एव सुरूपं - शोभनरूपम् । ( दारयं पयाहिसि) दारकं प्रजनिष्यसि ॥ ८ ॥
[ से वि अ णमि' त्यादितो 'भविस्सइ'ति यावत् ]
Jain Educationmational
For Private & Personal Use Only
किरणाव टीका
व्या०
॥ ४८
www.library.org