SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ॥४७॥ एसनका मणिबन्धापितुलेखा करभाद्विमवायुयोः। ले खे द्वे यान्ति तिखोऽपि तर्जन्यङ्गुष्ठकाऽन्तरे ॥२०॥ येषां रेखा इमा तिस्रः सम्पूर्णा दोष पर्जिताः । तेषां गोत्रधनायुषि सम्पूर्णान्यन्यथा न तु ॥२१॥ उल्लध्यन्ते च यावन्त्योऽङ्गुल्यो जीवितरेखया। पञ्चविंशतयो ज्ञेया-स्तावन्त्यः शरदा बुधैः ॥२२॥ मणिवन्धोन्मुखा आयु-लेखायां येऽत्र पल्लवाः । सम्पदस्ते बहिये ता विपदोऽङ्गुलिसन्मुखाः॥२३॥ ऊर्ध्वरेखा मणेबन्धा-दूर्ध्वगा सा तु पञ्चधा । अङ्गुष्ठाऽऽश्रयणी सौख्य-राज्यलाभाय जायते ॥२४॥ राजा राजसदृक्षो वा तर्जनी गतयाऽनया । मध्यमां गतयाऽऽचार्यः ख्यातो राजाऽथ सैन्यपः ॥२५॥ अनामिकां प्रयान्त्यां तु सार्थवाहो महाधनः। कनिष्ठां गतया श्रेष्ठः सप्रतिष्ठो भवेद् ध्रुवम् ॥२६॥ यवैरङ्गुष्ठमध्यस्थै-विद्याख्यातिविभूतयः । शुक्लपक्षे तथा जन्म दक्षिणाङ्गुष्ठगैश्च तैः ॥२७॥ न स्त्रीस्त्यजति रक्ताऽक्षं नाऽर्थः कनकपिङ्गलम् । दीर्घबाहुं न चैश्वर्यं न मांसोपचितं सुखम् ॥२८॥ उरोविशालो धनधान्यभोगी शिरोविशालो नृपपुगवश्च । कटिविशालो बहुपुत्रदारो विशालपादैः सततं सुखी स्यात् ॥२९ अतिमेधाऽतिकीर्तिश्च विख्यातोऽतिमुखी तथा । अतिस्निग्धा च दृष्टिश्च स्तोकमायुर्विनिर्दिशेत् ॥३०॥ चक्षुःस्ने हेन सौभाग्यं दन्तस्नेहेन भोजनम् । वपुःस्नेहेन सौख्यं स्यात् पादस्नेहेन वाहनम् ॥३१॥ वामभागे तु नारीणां दक्षिणे पुरुषस्य च । विलोक्यं लक्षणं विज्ञैः पुंसस्त्वायुः पुरस्सरम् ॥३२॥ दु(पु)ष्टं यदेव देहे स्याल्लक्षणं चाऽप्यलक्षणम् । इतरद् बाध्यते तेन बलवत्फळदं भवेत् ॥३३॥ इति" FEAAAAAAAAAE Sain Educa t ional For Privale & Personal use only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy