SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणा टीका व्या CABIABAD अतिहस्वेऽतिदीर्धेऽतिस्थूले चातिकशे तथा। अतिकृष्णेऽतिगौरे च षट्षु सत्त्वं निगद्यते ॥६॥ सद्धर्मः सुभगो नीरुक सुस्वप्नः सुनयः कविः । सूचयत्यात्मनः श्रीमान् , नरः स्वर्गगमाऽऽगमौ ॥७॥ निर्दम्भः सदयो दानी दान्तो दक्षः सदा ऋजुः । मर्ज़ायोनेः समुद्भूतो, भविता च पुनः पुमान् ॥८॥ मायालोभक्षुधालस्य बहाऽऽहारादिचेष्टितैः । तियग्योनिसमुत्पत्तिं ख्यापयत्यात्मनः पुमान् ॥९॥ सरागः स्वजनद्वेपी दुर्भापी मुखसङ्गत् । शास्ति स्वस्य गताऽऽयातं नरो नरकवर्त्मनि ॥१०॥ नासिका-नेत्र-दन्तौ-ष्ठ,-कर-कर्णाऽहिणा नराः। समाः समेन विज्ञेया विषमा विषमेन तु ॥११॥ अस्थिवर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाऽऽज्ञा सर्व सत्त्वे प्रतिष्ठितम् ॥१२॥ आवर्तो दक्षिणे भागे दक्षिण : शुभकन्नृणाम् । वामो वामेऽतिनिन्द्यः स्या-दिगन्यत्वे तु मध्यमः ॥१३॥ अकर्मकठिनः पाणिर्दक्षिणो वीक्ष्यते नृणाम् । वामभ्रवां पुनर्वामः सुप्रशस्योऽतिकोमलः ॥१४॥ पाणेस्तलेन शोणेन धनी नीलेन मद्यपः । पीतेनाऽगम्यनारीगः कल्मषेण धनोज्झितः ॥१५॥ दातोन्नते तले पाणे-निम्ने पितृधनोज्झितः । धनी संभृतनिम्ने स्या-द्विषमे निर्द्धनः पुमान् ॥१६॥ अरेखं बहुरेख वा येषां पागितलं नृणाम् । ते स्युरल्पाऽऽयुषो निःस्वा दुःखिता नाऽत्र संशयः ॥१७॥ दीर्घनिर्मासपर्वाणः सूक्ष्मा दीर्घाः सुकोमलाः । मुघना सरला वृत्ताः स्वीबोरगुलयः श्रिये ॥१८॥ अनामिकाऽन्त्यरेखायाः कनिष्ठा स्याद्यदाऽधिका । धनवृद्धिस्तदा पुंसां मातृपक्षो बहुस्तदा ॥१९॥ SABA-CIAAAAAAAAE Jan Education Interational For Private & Personal use only awranwr.amesbrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy