SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावली टीका व्या० ॥४४॥ AAAAAAAAAA सौख्यलाभः इत्यादिषु भविष्यतीतिशेषो दृश्यः। (एवं खलु तुम देवाणुप्पिए !) एवंरूपात्-उक्तफलसाधनसमर्थात् स्वप्नाद् हे देवानुप्रिये ! त्वं दारकं प्रजनिष्यसीति सम्बन्धः। सोपसर्गत्वात् सकर्मको 'जनि' धातुरिति । (नवण्हं मासाणं बहुपडिपुण्णाणं) नवसु मासेषु षष्ठयाः सप्तम्यर्थत्वात् बहुप्रतिपूर्णेषु (अट्ठमाणराइंदियाणं वइक्कंनाणं) अर्द्धमष्टमं येषु तानि अर्द्धाऽष्टमानि तेषु रात्रिंदिवेषु-अहोरात्रेषु व्यतिक्रान्तेषु । (सुकुमालपाणिपायं) सुकुमारपाणिपादं (अहीणे) त्यादि अहीनानि-अन्यूनानि लक्षणतः। (पडिपुण्णपंचिंदियसरीरं) प्रतिपूर्णानि स्वरूपतः पश्चाऽपीन्द्रियाणि यस्मिन्तत्तथाविधं शरीरं-देहं यस्य स तथा । (लक्खणवंजणगुणोववे अं) लक्षणानि छत्रचामरादीनि । तत्र चक्रवर्तितीर्थकतामष्टोत्तरसहनं । बलदेवानामष्टोत्तरशतं । तदितरेषां तु प्रचुरभाग्यभाजां द्वात्रिंशत् । तानि चेमानि "छत्रं तामरसं धनू रथवरो दम्भोलि कूर्मा ऽङ्कुशाः वापी स्वस्तिक तोरणानि च सरः पञ्चाननः पादपः। चक्रं शङ्ख गजो समुद्र -कलशौ प्रासाद मत्स्या यवा यूप स्तूप कमण्डलून्य वनिभृत् सच्चामरो दर्पणः २७ ॥१॥ उक्षा पताका कमलाभिषेकः सुदाम केकी घनपुण्यभाजाम्" । इति षट्पदी। अथवा-"इह भवति सप्त रक्तः पडुनतः पञ्च सूक्ष्म दीर्घश्च । त्रिविपुल लघु गम्भीरो द्वात्रिंशल्लक्षणः स पुमान् ॥१॥ SHASTERESTERSTAESE ५॥४४। Sain Educ ational For Private & Personal use only Berary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy