SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ P श्रीकाल्प किरणावली टीका व्या०१ ॥४०॥ RICICHIATRICES (तं जहा) तद्यथा-(गय-वसह-सीह-अभिसेअ-दाम-ससि-दिणयरं झयं कुंभं । पउमसर-सागर-विमाण+भवण-रयणुच्चय-सिहिं च ॥४॥ तत्र-गज-वृषभ-सिंहाः प्रतीताः । अभिषेकः श्रियाः सम्बन्धी । दाम-कुसुममाला । <शशिदिनकरौ> ध्वज-कुम्भौ प्रतीतौ । पद्मोपलक्षितं सरः पद्मसरः । सागरः-समुद्रः । विमानं-देवसम्बन्धि भवनं-प्रासादः । रत्नोच्चयः-रत्नभृतं स्थालं । शिखी-निधूमोऽग्निः । यो देवलोकादवतरति तन्माता विमानं, यस्तु श्रेणिकाऽऽदिवन्नरकादवतरति तन्माता भवनं पश्यतीति द्वयोरेकतरदर्शनाचतुर्दशैव स्वप्नाः।यद्वा-विमानमेव भवनमिति व्युत्पत्त्या विमानाऽवतीर्णतीर्थकृन्माता विमानभवनं पश्यति । वर्णादिभिरतिशोभनत्वेन विमानमिव-विमानसदृशं भवनमिति व्युत्पत्त्याच नरकाऽवतीर्णतीर्थकृन्माता इति । एव-इन शब्दाभ्यां तत्पुरुषसमासकरणे नाऽऽधिक्यशङ्काऽपि । यद्यप्येते वक्ष्यमाणवर्णकविशिष्टास्त्रिशलावदेव देवानन्दयाऽपि दृष्टाः तथापि तथाविधफलाऽभावान्नाऽत्र गणधरैविस्तरतो वर्णिताः॥४॥ ['तए णमि' त्यादितो 'वयासी'ति पर्यन्तम् ] तत्र-(तए णं सा देवाणंदा माहणी) ततः सा देवानन्दा ब्राह्मणी (इमे एयारूवे) इमान् एतत्स्वरूपान् (उराले कल्लाणे सिबे धण्णे मंगल्ले सस्सिरीए चउद्दस महासुमिणे) <प्रशस्तान् कल्याणान् शिवान् धन्यान् मङ्गल्यान् सश्रीकान् चतुर्दश महास्वप्नान् > (पासित्तापडिबुद्धा समाणी) < दृष्ट्वा जागरिता सती> (हतचित्तमाणंदिआ) तत्र हृष्टतुष्टा-अत्यर्थ तुष्टा । अथवा हृष्टा-विस्मिता तुष्टा-तोषवती चित्तेनाऽऽनन्दिता चित्ताऽऽनन्दिता। यद्वा ASHRSHASHRASHRSHASHAHARASAR ॥४०॥ JainELTAL For Private & Personal use only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy