SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ कल्प ३८ ॥ फलोपः । अथवाऽयमपरात्र शब्दस्तथा च 'अर्द्ध गते सर्वं गतम्' इतिन्यायादपगता रात्रिः अपरात्रः । [क्वचितु 'अडरतावर ते ' ति पाठः तत्र अर्द्धरात्रलक्षणो योऽपररात्रस्तत्र ] ( हत्युत्तराहिं) > हस्तोत्तराभिः > बहुवचनं बहुकल्याणकाऽपेक्षं च्यवनादिकल्याणकचतुष्टयस्य उत्तरफल्गुनीजातत्वात् । यद्रा - ' फल्गुनी प्रोष्ठपदस्य भे' इति सूत्रेण फल्गुनीशब्दस्य बहुवचनान्तताऽपि । [य सन्देहविपौषधीकारः प्रथमसूत्रे (पंचहत्युत्तरे ) त्ति पदं व्याख्यानयन् समासकरणेन बहुवचनं बहुकल्याणकाऽपेक्षमित्यु क्तवान् तद् गर्भसंहरणस्याऽपि कल्याणकत्वं सिद्धयतु इति स्त्रमताऽनुर । गेणैवेति बोध्यम् । कथमन्यथा व्याख्येयमूत्राऽभावेऽपि तदुद्भावयेत् ? । टीप्पनककारेणाऽप्यत्रैव सूत्रे व्याख्येयमूत्रसद्भावेन तदुद्भावितमिति ।] (नक्खत्तेणं जोगमुवागणं) ति < उत्तरफल्गुनीनक्षत्रेण योगमुपागतेन अर्थाच्चन्द्रेण सहेत्यर्थः । (आहारवीए) आहाराsपक्रान्त्या - देवाऽऽहारपरित्यागेन । अथवाऽऽहारव्युत्क्रान्त्या - अपूर्वाऽऽहारोत्पादनेन मनुष्योचिताऽऽहारग्रहणेनेत्यर्थः [ एवमन्यदपि पदद्वयं व्याख्येयं ] ( भववकंतीए सरीरवकंतीए ) <भवाऽपक्रान्त्या शरीराऽपक्रान्त्या > ( कुच्छिसि भत्ताए) कुक्षौ गर्भतया (वक्ते) व्युत्क्रान्तः - उत्पन्न इति ॥ ३॥ ['समणे' त्यादित: 'पडिबुद्धे' त्यन्तं सम्बन्धः ] तत्र - ( समणे भगवं महावीरे तिष्णाणोवगए आविहोत्था) श्रमणो भगवान् महावीरः मति श्रुताऽवधिज्ञानत्रयसहितोऽभवत् । (चइस्सामि ति जाणइ) तत्र 'चहस्सामि'ति । यद्यपि देवानां पण्मासाऽवशेषायुषां - “माल्यम्लानिः कल्पवृक्षप्रकम्पः श्रीहीन शो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाऽङ्गभङ्गौ दृष्टेर्भ्रान्तिर्वेपथुचारतिथ Jain Ednternational For Private & Personal Use Only किरणावली टीका व्या० १ ॥ ३८ ॥ Thin elibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy