SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरण टीव व्या AUGRECRURRESTERRECARECASTEGA-SA व्याख्या-तत्र (तेणं कालेणं तेणं समएणं) (प्राग्वत् ) < तस्मिन् काले तस्मिन् समये > (समणे भगवं महावीरे) श्रमणो भगवान् महावीर: कुक्षौ गर्भतया व्युत्क्रान्तः इति सम्बन्धः। (जे से) त्ति । यःसः (गिम्हाणं) ति । आर्षे ग्रीष्मशब्द: स्त्रीलिङ्गो बहुवचनान्तश्च ततो ग्रीष्मस्येत्यर्थः। (चउत्थे मासे) < चतुर्थों मास:> (अट्ठमे पक्खे) < अष्टमः पक्ष> (आसाढसुद्धे') आषाढशुक्ल: (तस्स णं आसाढसुद्धस्स) अषाढशुक्लस्य (छट्ठी पक्खे णं) अहोरात्रस्य दिवारात्रिभ्यामुभयपक्षात्मकत्वात् षष्ठयाः पक्षे-पष्ठयास्तिथे रात्रौ 'णमिति पूर्ववत् । [क्वचित् 'छट्ठी दिवसे णं' ति पाठः। स च दिवसशब्दस्य तिथिवाचकत्वेन व्यक्त एव] (महाविजयपुप्फुत्तरपवरपुंडरीयाओ महाविमाणाओ वीसं सागरोवमद्विइआओ) महान् विजयो यस्मिन् तच्च तत् पुष्पोत्तरं च-पुष्पोत्तरसम्झं च तदेव प्रवरेषु-प्रधानेषु पुण्डरीक-सर्वविमानेष्वतिश्रेष्ठत्वात् तस्मात् <महाविमानात् विंशतिसागरोपमस्थितिकात् > [क्वचिच्चेतदनन्तरं 'दिसासोवत्थियाओ वद्धमाणाओ' तिपाठः। तत्र दिक्ष्ववस्थितादावलिकागतविमानमध्यस्थात् बर्द्धमानाच्च सर्वप्रकारेणेत्यर्थः] (आउक्खएणं भव क्खएणं ठिइक्खएणं) आयुः-देवायुः, भवः-देवगतिः, स्थिति-आहारो वैक्रियशरीरे अवस्थिति तेषां क्षयेण। (अणंतरं चयं चइत्ता) अनन्तरम्-अव्यवहितं च्यवं-च्यवनं चित्वा-कृत्वेत्यर्थः। अथवाऽनन्तरं-देवभवसम्बन्धिनं चयं-देहं त्यक्त्वाविमुच्य(इहेव) इहैवेति देशतः प्रत्यासन्ने, न पुनर्जम्बूद्वीपानामसङ्ख्येयत्वादन्यत्रेत्यर्थः। (जंबुद्दीवे दीवे) < जम्बूद्वीपेद्वीपे> (भारहे वासे) <भारते वर्षे> । (दाहिणभरहे) < दक्षिणार्द्धभरते > (इमीसे ओसप्पिणीए) < अस्यामवसपिण्यां> (सुसमसुसमाए समाए वइकंताए)< चतुष्कोटाकोटिसागरोपमप्रमाणे प्रथमारके व्यतिक्रान्ते> (सुसमाए ERRORISEERURSA Lain Edu a l For Privale & Personal use only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy