________________
ॐॐॐॐॐSAR
सर्वतः सर्वथा प्रकाशकत्वेन कृत्स्नाऽर्थग्राहकत्वात् कृत्स्नं (पडिपुण्णे) पूर्णिमामृगाङ्कमण्डलमिव सकलस्वांशयुक्तत्वात् प्रतिपूर्ण । | (केवलवरनाणदंसणे) एवंविधमपि केवलम्-असहायं स्वविषयप्रकाशकत्वेन नाऽन्यत् अवध्यादिसजातीयमपेक्षत इत्यर्थः ।
अत एव वरं-प्रधान न पुनः श्रुतज्ञानवत्परोपकारकत्वेन ज्ञानं च दर्शनं च ज्ञानदर्शने । ततः प्राक्पदाभ्यां कर्मधारयः । सर्वत्र प्राकृतत्वात् पुंस्त्वनिर्देशः।
ननु 'अनन्तमनुत्तरमित्यादि विशेषणैरुभयोरपि निर्विशेषत्वेनोक्तत्वात् यदेव ज्ञानं तदेव दर्शनमिति पर्यायवाचित्वाऽऽपन्नयोदयोग्रहणमयुक्तम् ? इति चेत् । मैवं, समानविषयत्वेऽपि ज्ञानं तावत् प्रधानविशेषोपसर्जनीकृतसामान्याऽर्थग्रहणलक्षणं । दर्शनं पुनः प्रधानसामान्योपसर्जनीकृतविशेषाऽर्थग्रहणलक्षणम् इतिविशेषस्य विद्यमानत्वात् । को भावः ? ज्ञानं तावत् स्वविषयं प्रकाशयदशेषविशेषान् प्रधानभावेन प्रकाशयति यावत् सामान्यानि तु गौणभावेन, दर्शनं तु यावत् सामान्यानि प्रधान्येनाऽशेषविशेषांश्च गौण्येनेति । (समुप्पण्णे) त्ति । सम्-सम्यग् उत्पन्नं 'समुत्पन्नं-सर्वथा तदावरणाऽपगमात् सर्वतः सर्वाशैः प्रादुर्भूतमित्यर्थः, न पुनः क्षायोपशमिकमत्यादिवदभ्यासवशात् प्रवर्द्धमानं । न वाऽसदेवोत्पन्नं 'नाऽसतो जायते भावः' इतिवचनात् । आत्मना सहाऽनादिसिद्धत्वात् । (साइणा परिनिब्बुए) ति-स्वातिनक्षत्रेण युक्ते चन्द्रे परि-सामस्त्येन नियता-सकलकर्माशैविमुक्त इत्यर्थः (भयवं) < भगवान् > इति ।।२।।
अथ विस्तरवाचनामधिकृत्य यतश्च्युतो भगवान् यत्र चोत्पन्न इति नामग्राहं बिभणिषुराह[ते णमि' त्यादितो 'गम्भत्ताए वक्ते' ति यावत् ] ।
विजय
JainEducat
For Private & Personal use only
ww2
ary.org