SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥ ३४ ॥ Jain Educa पाशपतितस्य तेऽन्यस्य मोक्षोपायस्यासम्भवेन परित्यज तीर्थाऽनाऽऽहतत्वेन मृतमातृकल्पां पञ्चमीं। स्वीकुरु च तीर्था ssered नैव कल्पलताकल्पां चतुर्थी जिनाऽऽज्ञात्वात् । एवमन्यपि एवंविधपुरुषप्रवर्तितं जिनाऽऽज्ञा । न पुनः स्वगृह एव पण्डितमन्येन येन केनचित् यत्किञ्चिदपीत्यलं विस्तरेण । यद्यपि विस्तर भीत्या एतावत्या अपि युक्तेरुद्भावनमसङ्गतमिवाssभाति । तथाऽपि कालानुभावात् प्रायो भूयान् जनो भूयस्यप्यन्तरे विद्यमानेऽप्यभेदमेव मन्यते । स एव तावदनया दिशा युक्तिलेश निशम्य भेदं जानात्विति नाऽसङ्गतिदशेषः । किन्तु तदनुकम्पैवेति सुस्थम् ॥] अथ प्रकृतमुच्यते - कथं पञ्चस्तोत्तरो भगवानभूद् ? इति व्यक्त्यर्थं (तं जहा) तद्यथेत्यादिना मध्यमवाचनां निर्दिशति(हत्थुत्तराहिंचुए ) ति हस्तोत्तराभिः उत्तरफाल्गुनीभिः चन्द्रयोगे च्युतो देवभवात् (चहत्ता गन्भं वकंते) च्युत्वा च गर्भ व्युत्क्रान्तः - उत्पन्नः । (हत्थुत्तराहिं गभाओ गर्भ) < हस्तोत्तराभिः > गर्भात् गर्भ ( साहरिए) सङ्क्रामितः । (हत्थुत्तराहिं जाए) - हस्तोत्तराभिः > जात:- योनिवर्त्मना निर्गतः (हत्थुत्तराहि मुंडे भवित्ता अगाराओ अणगारिअं पव्वइए) हस्तोत्तराभिः > मुण्डः - बाह्यतः केशलुञ्चनेन, अभ्यन्तरतस्तु कषायेन्द्रियमनोनिग्रहेण इति द्रव्यभावाभ्यां मुण्डितो भूत्वा । अगारात् 'विश्लेषे पञ्चमी' (सिद्ध० २-२ - २९) इति गृहवासं परित्यज्य अनगारितां साधुतां प्रव्रजितःस्वीकृतवान् साधुस्वरूपमापन इत्यर्थः । (हत्थुत्तराहिं अनंते) त्ति < हस्तोत्तराभिः > अनन्ताऽर्थविषयत्वाद् अनन्तम् । 'अणुत्तरे' सर्वोत्कृष्टत्वाद् अनुत्तरं (निव्वाघाए ) कटकुटयादिभिरप्रतिहतवान् निर्व्याघातं । (निरावरणे) क्षायिकभावोत्पन्नत्वेन सर्वाssवरणाऽपगमात् निरावरणं । (कसिणे) अनन्तपर्यायोपेत भूतभवद्भविष्यद शेष सामान्यात्मक वस्तूनां enational For Private & Personal Use Only किरण टीक व्या ॥ ३ www.jamemorary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy