SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणार टीका ॥ ३२॥ व्या . कथमन्यथा स्वयमेव-'सङ्घत्राकृतचैत्यकूटपतितस्याऽन्तस्तरां ताम्यतस्तन्मुद्रादृढपाशबन्धनवतः शक्तस्य न स्पन्दितुम् । मुक्त्यै कल्पितदानशीलतपसोऽप्येतत्क्रमस्थायिनःसङ्घच्याघ्रवशस्य जन्तुहरिणवातस्य मोक्षः कुतः ॥३३॥ त्ति सङ्घपट्टकसूत्र त्रयस्त्रिंशत्तमकाव्येन तत्कालवर्तिसङ्घ व्याघ्रोपमयोपावर्णयिष्यत् ? । कथं वा तट्टीकायाम्-‘ऐदंयुगीनसङ्घप्रवृत्तिपरिहारेण सबाह्यत्वप्रतिपादनममीषां भूषणं न तु दृषणम्' इति सङ्घबाह्यतां तस्य व्याख्यास्यद् इति । न चैवं यथार्थमपि | स्वयमेव स्वोपघातकं कथमुक्तवान्' ! इति चित्रं चिन्तनीयं । मतिभ्रमेऽपि घुणाऽक्षरन्यायेनाऽनाऽऽश्चर्यात् कथमन्यथा गणनाऽनुक्रमेण द्वितीयमपि 'गर्भापहारं 'भोः-श्रावकाः! अघ श्रीमहावीरस्य षष्ठं गर्भापहारकल्याणकमिति वचश्चातुर्यात् केनाऽप्यप्रकाशितं पूर्व मयैव प्रकाश्यत इत्यज्ञापयिष्यत् । किञ्च-आस्तामन्यः शतपद्यामप्याष्ट्रिकाऽऽचरणायाः कथं प्रामाण्य ? । यतो जिनवल्लभेन सिद्धान्तविरुद्धमेव पष्ठं कल्याणकं व्यवस्थापितं । जिनदत्तन च स्त्रीपूजाऽपलाप इत्याद्यर्थाऽऽलापकवचोभिः शतपदीकारः पाल्लविकोऽपि तं कोपितवानित्यपि चित्रं चेतसि पर्यालोच्यम् । तथा च यत्र क्यापि षट्कल्याणकव्याख्यानमुपलभ्यते तद्यथासम्भवं क्वचिदभिनिवेशात् क्यचिचाऽनाऽऽभोगादवगन्तव्यम् । अन्यथा श्रीहरिभद्रसूर्यादीनां सम्मतेरकिश्चित्करत्वेन मूलभङ्गाऽऽपत्तिः। तस्मान्मूलाऽऽद्यखण्डनयैव स्कन्धादीनां कुशलता । तदुच्छेदे तु तेषामप्युच्छेद एवेति विचिन्त्य प्रवचनाऽविसंवाद्येव वचःप्रमाणीकर्तव्यम् । अन्यथा यदि सर्वसम्मतानां श्रीहरिभद्रसूर्यादीनां वचोभिर्विसंवाद्यपि वचःप्रमाणीस्यात् तर्हि अस्माकमपि वचनं GREACOCALCOME JainEduca For Private & Personal use only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy