________________
श्री कल्प
॥ ३० ॥
स्माकं स पूर्वजः । वयं च तदनुजा इति । पृष्ठं कल्याणकं तु त्वदीयव्यवस्थापित समुदायेनैव प्रमाणीकृतं । न पुनः परम्पराssयाततीर्थदाज्ञावर्तिसङ्गेनेति कुतस्त्यं तौल्यम् ? त्वदीय समुदायस्य च तीर्थकु दाज्ञा वर्तित्व स्वीकारे श्रीहरिभद्रसूरि - श्री अभय देवसूर्यादीनां पञ्चकल्याणकत्रादिनां तीर्थबाह्यता स्यात् । तच्च तवाऽप्यनभिमतम् । अतो भवानेव तथेति किं न विचारयसि ? | यच्च चतुर्थ्यां अनागमिकत्वमुकं तदप्ययुक्तम् । अनागमिकप्रवर्त्तने श्री कालकसू रेर्युगप्रधानत्वव्याहते: अनाभोगे च तत्कालवसिङ्घनिवारणाऽभविष्यत्, न च तदानीन्तनसङ्घः तदायत्तः तं प्रति निवारयितुमशक्तः ? । तीर्थकृद्वयवस्थापितः सङ्घस्तीर्थस्य तीर्थकृतो वाऽऽज्ञातिक्रमे महान्तमपि पुरुषं निवारयत्येव । कथमन्यथा चतुर्दश पूर्वविदमपि श्रीभद्रबाहुस्वामिनं सङ्घाssज्ञातिक्रमणे 'किं प्रायश्चित्तम् ?' इति वचसा प्रबोध्य मिथ्यादुष्कृतमदापयिष्यत् ? । आस्तां सङ्घः । सङ्घाऽऽज्ञावर्त्ति प्रध्वरमपि मानुषं तीर्थदाज्ञाऽतिक्रमणे निवारयति । यथा पष्ठ कल्याणकव्यवस्थापकं स्वदीयगुरुमार्यिकाऽपीति । प्रागुक्तत्वद्भणितिरपि । यदुक्तं- 'प्रवचनपूजाऽभिवृद्धिबुद्धया' इति तदप्यसारं । जिनाऽऽज्ञाऽतिक्रमणे स्वमतिकल्पितस्य सुन्दरस्याऽपि सुन्दराऽऽभासत्वेन मिथ्यात्वप्रसक्त्याऽनर्थहेतुत्वात् । यदागमः -
'aurant किलिees जइ वि करे अइदुकरं तु तयं । सुंदरबुद्धीइ कथं बहुअं पि न सुंदरं होई' ति॥ ९९४ ॥ ( उप० ) ननु भोः ! 'नो से कप्पर तं स्यणि उवायणावित्तए'त्ति । षष्ठीनिषेधात् 'तं च पुण्णिमाए पंचमीए । पत्रमा इएस पव्वे पज्जोसवेयन्त्रं नो अपव्वेसु'ति । निशीथचूर्ण्यादिवचनात् । चतुर्थ्या अपि निषेधात् । प्रवचनविरुद्धाऽपि चतुर्थी राज्ञ
Jain Educammational
For Private & Personal Use Only
किरणाव टीका
व्या०
॥ ३०
Mbrary.org