________________
॥२९॥
AGA
कल्याणकं व्यवस्थापयंश्च कथमनाभोगवान् ? कथं वा तदपत्यम् ' इति स्वयमेव रहस्यालोच्यम् । एतेन पञ्चकल्याणकवादिनां प्रागुक्तानामनाऽऽभोगशङ्काऽपि व्युदस्ता । तदीयप्राचीनानां षट्कल्याणकविषयकभणितेरनुद्भावनात् । यत्तु-'पंचहत्योत्तरे होत्था साइणा परिनिव्वुडे भयवं' ति भणितेरुद्भावन तत्तु तदुद्भावयितुरेवाऽनाघ्रातसिद्धान्तगन्धवाऽभिव्यञ्जकमुक्तरीत्या मन्तव्यम् ।
ननु कल्याणकाऽधिकारप्रतिबद्धत्वात् शक्रजीतत्वाच्च कथं न तस्य कल्याणकत्वम् ? इति मे मतिरिति चेत् । सत्यं, तर्हि "उसभेणं अरहा कोसलिए पंच उत्तरासाढे अभिई छठे होत्था । तं जहा-उत्तरासाढाहिं चुए, चइत्ता गभं वक्ते. उत्तरासाढाहिं जाए, उत्तरासाढाहिं रायाभिसे पत्ते, उत्तरासाढाहिं मुंडे भवित्ता अगाराओ अणगारि पब्बइए, उत्तरासादाहिं जाव समुप्पण्णे, अभिइणा परिनिव्वुडे''त्ति। श्रीजम्बूद्वीपप्रज्ञप्तिपत्रे-श्रीऋषभराज्याभिषेकस्य कल्याणकाऽधिकारप्रतिबद्धत्वात् प्रथमतीर्थदराज्याभिषेकस्य च शक्रजीतत्वेन श्रीहारिभद्याम् आवश्यकवृत्तावुक्तत्वाच्च । अद्भुतपुण्यप्रकृतिमजनस्य जन्मवदऽनाश्चर्यभूतस्य च श्रीऋषभराज्याभिषेकस्याऽपिकल्याणकत्वमतिव्रततिरुत्सूत्रवृक्षमारोहन्ती तावकीना केन पापात्मना मर्दिता ?। वादी आह-आस्तां सिद्धान्तपक्षः परं यथाऽनागमिकाऽपि कालकमरिप्रवर्तिता चतुर्थी तदनुजानां प्रमाणं । तथा तथाविधमपि 'प्रवचनजाऽभिवृद्धिबुद्धया' सुविहिताग्रणी श्रीजिनवल्लभवाचनाऽऽचार्यप्रवर्तितं गर्भसंहरणमपि कल्याणक तदनुजानां प्रमाणीभवन निवारयितुं शक्यम् ? इति चेत् । को निवारयिता? स्त्रीपूजानिषेधवदिदमप्यनाऽऽगमिकं युज्यते एव । भवन्तः प्रमाणयन्ति न वा ? इति चेत् । नैवेति ब्रमः । यतो नहि वयं तदनुजा न चाऽसौऽस्माकं पूर्वजः । न चैवं चतुर्थ्यामपि, युक्तः सामान्य-चतुर्थी तावत तत्कालयतिसर्वसङ्कप्रमाणीकृतत्वेन तदनुकालवर्तिनाऽपि सर्वसङ्घन प्रमाणीकृता । अतस्तदन्तर्वतिनाम
BREACARECRECEKACIE
R EREDREARN
| ॥२९।
Sain Educa
t e national
For Private & Personal use only
wravelibrary.org