________________
॥२७॥
अत्र पश्चानामेव कल्याणकानां मासाः पक्षास्तिथयो नक्षत्राणि चोक्तानि । तत्र यदि गर्भाऽपहारोऽपि कल्याणकतयाऽऽराध्योऽभविष्यत्तर्हि तद्वत्तस्याऽपि मासाद्यकथयिष्यत् , तच्च नोक्तम् । अतो न गर्भाऽपहारः कल्याणकमिति । यत्तु क्वचिदन्यत्रा वचूर्णी कल्याणकपटकव्याख्यानमुपलभ्यते तत् कर्तुस्तदंशे प्रवचनाऽनुपयोगे सति सन्देह विषौषध्यनुसरणमेव शरणम् ।। प्रवचनाऽनुपयोगस्तु महतामपि सम्भवति । यदुक्तं_ 'नहि नामाऽनाभोगः छद्मस्थस्येह कस्यचिम्नास्ति । ज्ञानाऽऽवरणीयं हि ज्ञानाऽऽवरणप्रकृतिकर्म" ॥१॥ न चैवं क्वचिदंशे श्रुताऽनुपयोगो महतां लाघवाय । गौतमस्वामिनोऽपि श्रुताऽनुपयोगस्याऽऽगमप्रसिद्धत्वादिति न किञ्चिदनु पपन्नम् । तथा चानाभोगादन्यत्र तीर्थसम्मतपुरुषाऽसम्मत्या व्याख्याने प्ररूपणे च तीर्थाऽऽशातना-तीर्थवाह्यता चाsनिवार्यैव । न चैवमास्माकीनानामपि षट्कल्याणकव्याख्यानं तत्प्ररूपणं चाऽनाभोगादेवेति वक्तव्यम् । तत्रानाऽऽभोग़गन्धस्याऽप्यभावात् । तत्कथम् ? इति । चेत् । शृणु-षष्ठकल्याणकप्ररूपणामूलं ताच्चित्रकूटे चण्डिकागृहस्थितो नवीनमतव्यवस्थापनहेतवे जिनवल्लभवाचनाऽऽचार्य एव । यत आह-तत्र कृतचतुर्मासकानां श्रीजिनवल्लभवाचनाचार्याणामाश्विनमासस्य कृष्णत्रयोदश्यां श्रीमहावीरगर्भाऽपहार कल्याणकं समागतं । ततः श्राद्वानां पुरो भणितं जिनवल्लभगणिना भोः श्रावका ! अद्य श्रीमहावीरस्य षष्ठं गर्भाऽपहारकल्याण के 'पंच हत्युत्तरे होत्था साइणा परिनिबुडे भया' इति प्रकटाऽक्षरैरेव सिद्धान्ते प्रतिपादनात् । अन्यच्च तथाविधं किमपि विधि चैत्यं नास्ति । ततोऽत्रैव चैत्यवासिचैत्ये गत्वा देवा वन्धन्ते तदा शोभनं भवति । गुरुमुखकमलविनिर्गतवचनाऽऽराधकैः श्रावकैरुकं-भगवन् ! यधुष्माकं सम्मत तत्क्रियते । ततः
RECRUGRAACREKHA
Jain Educatie
national
For Private & Personal use only
wo
m
brary.org