SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ द किरणावली टीका व्या०१ श्रीकल्प-15 विसंवादित्वेन प्रत्यक्षाऽऽगमवाधाच्च । तथाहि-पंचहत्थुरे होत्थ' ति आचाराङ्गे । तट्टीका यथा 'हस्त उत्तरो यासाम् उत्तर फाल्गुनीनां ता हस्तोत्तराः । ताश्च पञ्चसु स्थानेषु गर्भाऽऽधान-संहरण-जन्म-दीक्षा-ज्ञानोत्पत्तिलक्षणेषु संवृत्ताः' । अतः २६॥ पञ्च हस्तोत्तरो भगवानभूदित्यत्र 'पञ्चसु स्थानेषु' इत्येव व्याख्यातं न पुनः कल्याणकेष्विति स्वयमेवाऽऽलोच्यम् । तथा 'इअ ते दिणा पसत्था ता से सेहिं पि तासु कायव्वं । जिणजत्ताइ सहरिसं ते अ इमे वद्धमाणस्स ॥४२७॥ आसाढसुद्धछट्ठी चित्ते तह सुद्धतेरसी चेव । मग्गसिरकिण्हदसमी वेसाहे सुद्धदसमी अ ॥४२८॥ कत्तिअकिण्हे चरिमा गम्भाइदिणा जहक्कम एते । हत्थुत्तरजोएणं चउरो तह साइणा चरमो ॥४२९॥ श्रीहरिभद्रसरिकृतयात्रापश्चा० श्रीअभयदेवमूरिकृततट्टीकादेशो यथा-आषाढशुद्धपष्ठी-आषाढशुक्लपक्ष-षष्ठीतिथिरित्येकं दिनम् । एवं चैत्रमासे 'तथे' ति समुच्चये शुद्धत्रयोदश्येवेति द्वितीयं । "चैवे'ति अवधारणे । तथा मार्गशीर्षकृष्णदशमीति तृतीयं । वैशाखशुद्धदशमीति चतुर्थ । चशब्दः समुच्चयार्थः । कार्तिककृष्णे चरमा-पञ्चदशीति पञ्चमम् । एतानि किम् ? इत्याहगर्भादिदिनानि-गर्भ-जन्म-निष्क्रमण-ज्ञान-निर्वाणदिवसा यथाक्रम-क्रमेणैव एतानि-अनन्तरोक्तानि । एषां च मध्ये हस्तोत्तरयोगेन-हस्त उत्तरोयासां, हस्तोपलक्षिता वा उत्तरा हस्तोत्तरा-उत्तराफाल्गुन्यः। ताभिर्योगश्चन्द्रस्येति हस्तोत्तरयोगः तेन करणभूतेन चत्वार्याधानि दिनानि भवन्तीति । 'तथे ति समुच्चये। स्वातिना-स्वातिनक्षत्रयोगेन युक्तः 'चरमो' त्ति-चरमकल्याणकदिन इति प्राकृतत्त्वात् । इति गाथाद्वयार्थः ॥ बनाना GETECTESAKARAARAA दा॥२६॥ 8 Sain E e mnational For Privale & Personal use only wwwmijarlelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy