________________
॥२५॥
AIBASNEAUCRA
भगवानपि 'शमन' इति अपायाऽपगमाऽतिशयः। सम्यग-यथास्थितम् अणति-व्रते इति 'समणः' अबाधितसिद्धान्तगतिः इति वचनाऽतिशयः । सह मानेन-सुराऽसुरनरेश्वरादिकृतपूजया वर्तते इति 'समान' इति 'पूजाऽतिशयः। हूस्वत्वं च प्राकृतत्वात् । (भगवं) भगवान् समग्रैश्वर्यादिसंयुक्तः (महावीरे) महावीरः-कर्मशत्रुजयादन्वर्थनामाऽन्तिमो जिनः । (पंच हत्थुत्तरे)त्ति । हस्तादुत्तरदिशि वर्तमानत्वात् , हस्त उत्तरो यासां वा, हस्तोपलक्षिता वा उत्तरा हस्तोत्तरा-६ उत्तराफाल्गुन्यः । ताश्च पञ्चसु-पश्चस्थानेषु यस्य स पञ्चहस्तोत्तर इति भगवद्विशेषणम् । निर्वाणस्य स्वातौ जातत्वात (होत्थ)त्ति अभवत् । यद्यप्यग्रे निर्वाणस्याऽवश्यं वक्तव्यत्वेनादावपि 'उसमे गं अरहा कोसलिए पंच उत्तरासाढे अभिइ छ? होत्थ त्ति जंबु० प्र० सूत्रवत् 'समणे भगवं महावीरे पंचहत्युत्तरे साइ छठे होत्थ'त्ति सूत्रं वक्तुं युक्तं तथापि सूत्रकाराणां विचित्रा गतिरिति नाऽधृतिविधेया । यच्च कल्याणकनिबन्धबन्धुरे श्रीवीरचरित्रे 'पंचहत्थुत्तरे होस्था' इत्यादावकल्याणकभूतस्याऽपि गर्भाऽपहारस्योद्देशः तद्देवानन्दाकुझाववतीर्णः प्रसूतवती च त्रिशले ति महत्यसङ्गतिः तनिवारणार्थम् अवश्य वक्तव्यत्वान्नक्षत्रसाम्याचाऽवगन्तव्यम् । अत एव यत्र क्यापि श्रीवीरचरित्रं तत्र सर्वत्रापि 'पंच हत्थुत्तरे होत्था' इत्येव सूत्रम् । उक्तकारणस्य सर्वत्रापि सत्त्वाद् । यत्र तु ऋषभचरित्रं क्वचिद्राज्याभिषेकस्याऽवश्य वक्तव्यत्वाऽभावेन 'चउ उत्तरासाढे'त्ति । क्वचिच्च सूत्राऽन्तरे नक्षत्रसाम्यात्' पंच उत्तरासाढे'त्ति । न तत्र दोषः।।
[ननु सन्देहविषौषध्यां गर्भाऽपहारस्य कल्याणकत्वेन व्याख्यानात्तु 'पट्कल्याणकनिबन्धबन्धुरं श्रीवीरचरित्रम्' इत्येव कथं नोक्तम् ? इति चेत् । मैवं, गर्भाऽपहारस्य कल्याणकत्वेन क्वाऽप्यागमे व्याख्यानाऽनुपलम्भात् । प्रत्युताऽऽचाराङ्गादिभि
DADABPERATORS
BAIRAASALA
Jain Educatiarthimosiational
For Private & Personal use only
wwmjainmendrary.org