SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥ २४ ॥ ते णं काले णं ते णं समए णं समणे भगवं महावीरे पंच हत्युत्तरे होस्था ॥ १ ॥ [ते णं काले णमि' त्यादित: 'परिनिन्युडे भययमि' तिपर्यन्तम् ] तत्र यत्तदोर्नित्याऽभिसम्बन्धात् यत्राऽसौ स्वामी दशमदेवलोकगत पुष्पोत्तरप्रवरविमानाद् देवानन्दाकुक्षाववातरदिति यच्छन्दघटितमन्वयमध्याहृत्य 'ते णं काले णं' ते - तस्मिन् 'णमिति वाक्यालङ्कारे काले- वर्तमानावसर्पिण्याचतुर्थाऽरकलक्षणे । णं- पूर्ववत् । अथाऽऽषैत्वात् सप्तम्यर्थे तृतीयामधिकृत्य 'तेणं कालेणं' ति तस्मिन् काले 'तेणं समएणं' तितस्मिन् समये । परं समय:- जीर्णशाटकस्फाटनदृष्टान्तेन प्रागुक्तकालाऽन्तर्गत परमनिकृष्टकालविशेषः । यद्वा हेतौ तृतीया । ततश्च पूर्वन्यायादेव यौ कालसमयौ श्री ऋषभादिजिनैः श्रीवीरस्य षण्णां च्यवनादीनां वस्तूनां हेतुतया प्रतिपादितौ न च च्यवनादीनां वस्तुत्वेन व्याख्यानमनागमिकं चूर्ण्यादिषु तथैव व्याख्यानात् । यतः 'जो भगवता उसमसामिणा सेसतित्थयरेहि अ भगवतो वद्धमाणसामिणो चवणाईणं छन्हं वत्थूणां कालो जातो दिट्ठो बागरिओ अ । तेणं काळेणं तेणं समएणं'ति इति पर्युषणाकल्पचूर्णों तथा दशाश्रुतचूर्णौ च । तेन हेतुभूतेन कालेन समयेन । 'समणे 'ति 'श्रमुच् खेदतपसो :' इति श्राम्यति इति श्रमण:- घोरतपोऽनुष्ठायीत्यर्थः । यद्वा--'सम' त्ति पदं मूलाऽतिशयचतुष्टयसूचकम् । तथाहि - अनुत्तरसुरसंशयनिरासाऽर्थं सत्यपि केवलज्ञाने मनसः प्रयोगात् । सह मनेन मनसा वर्त्तते इति 'सामना' इत्यनुत्तरमुरसंशयनिरासकत्वेन ज्ञानातिशयः । रागाद्युपद्रवशमकत्वाद् Jain Educatiemational For Private & Personal Use Only किरणावली टीका व्या० १ ॥ २४ ॥ library.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy