SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ॥२३॥ REPENSESARKARISAR कसाक्षयोमा भूदित्याशयतःप्रासादमारुह्य पतन्तीं शिलांतप:शक्त्या पाणिना दः । व्यन्तरस्तु तदनु तपःशक्तिसहनाऽशक्तः शिला संहृत्य नत्वा च नागकेतुं तवचसा च राजानं पटूकृत्य निजस्थानमगात् । ततःप्रभृति राजमान्यः सन्नेकदा जिनेन्द्रभवने जिनपूजां कुर्वन् पुष्पमध्यस्थितसर्पदष्टाङ्गुलिरपि जिनेन्द्रमृतः पुरतो निश्चलथ्यानलीनः समूलकाषङ्कषितघातिकोज्ज्वलं केवलज्ञानमाप्तवान् । ततःशासन देव्यर्पितयतिलिङ्गोऽनेकभव्यान् प्रतिबोधयन् भूतले विहरति स्म इति तपसा दुःसाध्यमपि मुमाध्यमिति तपोमाहात्म्यमवगम्याऽन्यैरपि तपसि यत्नपरायणैर्भाव्यमिति नागकेतुकथा ॥ अष्टमतपसि कविघटनात्वेवम् 'किरत्नत्रयसेवन किमथवा शल्यत्रयोन्मूलनं, किंवा चित्तवचोवपुःकृतमलप्रक्षालनं सर्वतः । किं जन्मत्रयपावनं किमभवत् विश्वत्रयाऽऽयं पदं, धन्यैर्यद् विहितं कलावपि जनैः पर्वोपवासत्रयम् ॥१॥ इति श्रीकिरणावया कल्पव्याख्यान-प्रारम्भपद्धतिः॥ अथाऽत्र कल्पाऽध्ययने त्रीणि वाच्यानि । तथाहि-जिनानां चरितानि, स्थविरावली, पर्युषणासामाचारी चेति । उक्तं चपुरिमचरिमाण कप्पो मंगलं बद्धमाणतित्थम्मि । इह परिकहिआ जिणगण-हराइथेरावली चरितं ॥१॥ व्याख्या-वर्षा पततु मा वा, पर्युषणा तावदवश्यं कर्तव्येति प्रथमचरमयोः-ऋषभवीरयोस्तीर्थे कल्पः, मङ्गलं च वर्द्धमानतीर्थे यस्माद् इह-कल्पे परिकथितानि जिनानां चरितानि, गणधरादिस्थविरावली, चरित्रं चेति । तत्राऽपि साम्प्रतीनतीर्थाऽधिपतित्वेन प्रत्यासन्नोपकारित्वादादावेव श्रीभद्रबाहुस्वामिपादाः तद्भवव्यतिकराऽवाप्तपञ्चकल्याणकनिबन्धबन्धुरं श्रीवीरचरित्रं सूत्रयन्त उद्देशनिर्देशनचकमायं जघन्यमध्यमवाचनाऽऽत्मकं प्रथमसूत्रमादिशन्ति ॥ २ Jain Educ a tional For Private & Personal use only p orary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy