________________
श्रीकल्प
टीक व्या
॥ २०॥
मपि सूत्रं श्रुतबलेनाऽसङ्ख्येयभवनिर्णायकमहापुरुषप्रणीतत्वादुक्तमाहात्म्याऽव्यभिचारि । प्रतिसूत्रं चाऽनन्तार्थाऽभिधायकमपि । यदुक्तं
'सव्वनईणं जइ हुज्ज वालुआ सव्वउदहीण जं उदयं । तत्तो अणंतगुणिो अत्थो इक्कस्स मुत्तस्स' ॥१॥
तथा-'बदने रसनाशतं भवेत् , यदि मे निर्मल केवलं हृदि । तदिदं गदितु न पारयाम्यपि, कल्पस्य महाऽर्थमात्मना ॥१॥ न चैवविधमहापुरुषप्रणोतत्वात् प्राकृतनिबन्धः कथम् ? इति शङ्कनीयं । 'प्रेक्षावतां हि प्रवृत्तिः स्वार्थकारुण्याभ्यां व्याप्ता' इति वचनाद् । महापुरुषाः परोपकारपरायणा अपि यदि संस्कृतनिबन्धबन्धुरा भवन्ति तदा बालाऽबलादयश्चारित्रकाक्षिणो नाऽनुकम्पिता भवेयुः । तानिबन्धस्य तैरध्येतुमशक्यत्वात् । अत एव गणभृतोऽपि सुधर्मादयस्तेषां सुखाऽध्ययनादिप्रतिपत्त्यर्थमेवाऽल्पाऽक्षरं महाथे चाऽपि सिद्धान्तं प्राकृतनिबन्धबन्धुरमेव ग्रथितवन्तः । उक्तं च
'बालस्त्रीमन्दमूर्खाणां, नृणां चारित्रकाक्षिणाम् । अनुग्रहाऽर्थ तत्त्वज्ञः, सिद्धान्तः प्राकृतः कृतः॥१॥ (आ० नि० पे० ७३०) प्राकृतरचनाऽपि चतुरचेतसश्चेतश्चमत्करोति न त्वज्ञानाऽऽवृतचेतसश्चेतोऽपि । उक्तं च
'नेच्छन्ति प्राकृतं मूर्खा, मक्षिकाश्चन्दनं यथा । क्षीरानं शूकरा यद्वद् , घूका इत्र रविप्रभाम् ॥१॥ इति । ___ अथ 'अनधिकारिणा हि कृतं साङ्गमपि कर्म नोक्तफलाऽव्यभिचारि भवति' इत्यत्र वाचनायां श्रवणे च केऽधिकारिणः ? इति आकाङ्क्षायां मुख्यतः साधवः साध्व्यश्चाऽधिकारिणः । तत्रापि कालतो रात्रौ कृतोद्देशसमुद्देशादियोगाऽनुष्ठानो वाचनोचितो वाचयति । तदितरे तु शृण्वन्ति । साध्वीश्रावणादिकारणे पुननिशीथचूायुक्तविधिना दिवापि तयोरधिकारः । सम्प्रति
Sain Educati
o
nal
For Private & Personal use only
wwwitterry.org