________________
श्रीकल्प
॥ ३९० ॥
Jain Educ
सितपञ्चम्या अग् आषाढ पूर्णिमाया आरभ्य ये ये पर्युषणाप्रकाराः ते सर्वेऽपि श्रीपर्युपणाकल्प कर्षणपूर्वकवर्षा सामाचारीस्थापनारूप एव न तु सांवत्सरिकप्रतिक्रमणादिविशिष्टाः । त्वेते पर्युषणप्रकाराः सम्प्रति कथं न क्रियन्ते ? । उच्यतेव्यवच्छिन्नत्वात् । तथा-अभिवर्द्धितवर्षे विंशत्या दिनैः क्रियमाण गृहिज्ञातावस्थानरूपपर्युषणाप्रकारस्याऽपि व्यवच्छिन्नत्वात् । सम्प्रति तदपि कर्तुमनुचितं । प्रतिक्रमणादिकृत्यानि तु दुरापास्तानि इत्यत्र बहुवक्तव्यं, ग्रन्थगौरवभयान्नेह प्रतन्यते । अत एव कालवग्रहो जघन्यतोऽपि भाद्रसितपञ्चम्याः चतुर्थ्यां वाऽऽरभ्य कार्त्तिकचतुर्मासकान्तः सप्ततिदिनमान एवोक्तः, न पुनः शतदिनमानः । कश्चित्तु 'चाउम्मासुकोसं सत्तरिराइं दिया जहन्नेणं' ति वचनादेकसप्ततिदिनादाराभ्यैकदिनोन चतुर्मास कं यावन् मध्यममवग्रहं स्वीकृत्य पर्युषणाऽनन्तरं मासवृद्धौ दिनानां शतमपि न दोषाय इति घाष्टर्थमवलम्बते । तदयुक्तं- मध्यमत्वमपि पञ्चाशद्दिनलक्षणा नियतावग्रहमध्यात् पञ्च पञ्च दिनवृद्ध्या हान्या वा स्यात् न पुनः पर्युषणानन्तरपि दिनवृद्धया । अन्यथा कार्तिकचतुर्मास कानैयत्यं स्यादित्यलं प्रपञ्चेनेति । उत्कर्षतो वर्षायोग्यक्षेत्रान्तराभावे आषाढमासकल्पेन सह पाश्चा स्यवृष्टिसद्भावात् मार्गशीर्षेणापि सह पाण्मासिक इति । तत्र द्रव्य-क्षेत्र - काल-भावस्थापना चेयं । द्रव्यस्थापना- तृण डगलछमलकादीनां परिभोगः, सचित्तादीनां च परिहारः । तत्र च सचितद्रव्यं शैक्षो न प्रत्राज्यते, अतिश्रद्धं राजानं राजाऽमात्यं
विना । अतिद्रव्यं वस्त्रादि न गृह्यते । मिश्रद्रव्यं सोपधिकः शैक्षः । एवम् आहार - विकृति - संस्तारकादिद्रव्येषु परिभोगपरिहारौ योज्यौ । क्षेत्रस्थापना - सक्रोशं योजनं, ग्लानवैद्यौषधादौ च कारणे चत्वारि पञ्च वा योजनानि । कालस्थापना'चत्वारो मासाः ' तत्र कल्पन्ते । भावस्थापना - क्रोधादीनां विवेक: ईर्ष्या-भाषादिसमितिषु वा उपयोग इति ॥७८॥
For Private & Personal Use Only
mational
ך'
किरणावरु टीका
व्या०
॥ ३९०॥
brary.org