________________
॥ ३७७ ॥
પ
वज्र मवन्दत । ततः सः ‘अद्य अस्मत्पाय सपतद्ग्रहः केनाऽपि आगन्तुकजनेन पीतः, किञ्चिच्चाऽस्थाद्' इतिरात्रिदृष्टस्वप्नानुसारेण किञ्चिन्न्यूनदपूर्वाध्येतारं तं मत्वा स्वरूपं च पृष्ट्वा, पृथगुपाश्रयस्थितमध्यापयत् । दशमपूर्वयमकेषु अधीयमानेषु पितृभिः सन्देशकैः आकारणेऽप्यनागमनेन तल्लघुभ्राता फल्गुरक्षितः प्रपि । तेन प्रबोध्य सोऽपि प्रव्राजितः । ततः स्वजनान् प्रबोधयितुम् उत्सुकः, अध्ययनपराजितश्च - इदं पूर्वमद्यापि कियदवशिष्यते ?' इति गुरून् पप्रच्छ । 'बिन्दुमात्रमधीतम् उदधितुल्यं चावशिष्यते' इति गुरुभिः उक्ते भग्नोत्साहोऽपि गुरुगिरा कियदध्यैष्ट । ततः- दत्तोपयोगैः गुरुभिः शेषतच्छ्रतस्य स्वस्मिन्नेव व्युच्छेदं विज्ञाय, अनुज्ञातः सः सफल्गुरक्षितः दशपुरं प्राप । तत्र च राजादिनिर्मितप्रवेशमहा मातृ-भगिन्यादिस्वजनान् प्रात्रानयत् । पिता तु पुत्राद्यनुरागेण प्रत्रजितः परं स्नुषादिङ्घ्रिया धौतिक-यज्ञोपवीत- च्छत्रिको- पानह· कमण्डलूनि न मुमोच । ततः - गुरुशिक्षा बालैः सफलसाधुवन्दनेऽपि भवन्तं छत्रिकावन्तं न वन्दामहे' इत्युक्तः छत्रिकाममुचत् । क्रमेण तथैव कुण्डिकां ( कमण्डलुं यज्ञोपवीत - मुपानहावपि । धौतिकं तु तथापि न मुक्तवान् । अन्यदा च अनशनिनि साधौ मृते गुरुशिक्षया साधुषु वैयावृत्यकृते परस्परं कलहायमानेषु 'किमत्र महती निर्जराऽस्ति ?" इति गुरुं पप्रच्छ । गुरुभिः - 'ओम्' इत्युक्ते- 'अहं वहामि' इत्यूचे । 'अत्रोत्पद्यमानान् उपसर्गान् यदि सोढुं शक्नुथ तदा वहत, अपरथा अस्माकमरिष्टम् ' इति गुरुक्ते - ' स तमुत्क्षिप्य व्रजन् गुरुशिक्षया वालैः धौतिकाकर्षणे गुरुणा चोलपट्टः परिधापितः । ततः पश्चात्स्थितस्नुषादि दर्शनाल्लज्जितोऽपि - 'एप उपसर्गः सोढव्यः' इति विचिन्त्य तत्कार्यं कृत्वा पश्चादागात् । ततः किमेतद् ? आनयत घौतिकम् ? इति गुरुक्ते वभाण - 'किमद्य धौतिकेन ? यद दृष्टव्यं तत्तु दृष्टम्' इति चोलपट्ट एवाऽस्तु । तथापि त्रपया मिक्षामहिण्डमाने अस्मिन् गुरवः साधून्
Jain Education national
For Private & Personal Use Only
॥ ३७७॥
rary.org