SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प गिरणाव टीका ॥१८॥ व्या० SERECENTER-%AAAAAAAR ऐगग्गचित्ता जिणसासणम्मि पभावणा पूअपरायणा जे । तिसत्तवारं निसुणंति कप्प भवण्णवं गोअम ! ते तरंति' ॥१॥ इत्यादि कल्पश्रवणफलम् ॥ न चैवंविधमहात्म्यस्याऽनैकान्तिकत्वं शङ्कनीयम् , न वा बहुविधव्ययसाध्यं प्रासादप्रतिमाप्रतिष्ठाद्यनुष्ठान, बहायाससाध्यं चारित्राद्यनुष्ठान व्युदस्य सुखसाध्यतया पर्युषणाकल्पसूत्रश्रवणमात्रेणैव सन्तोष्टव्यम् । यतो यथाऽवसरमशेषधर्माद्यनुष्ठानेष्वप्यनिगृहितबलवीर्यस्य सम्यग्दृष्टेरेव. कालादिसमग्रसामग्रीसध्रीचीनतया भव्यत्वपरिपाकवशादभीष्टफलसिद्धावुक्तमाहात्म्याऽव्यभिचारान् । न हि लोकेऽपि कृषिकर्मादौ कारणभूतादपि बीजात् पृथ्वीपाथ पवनादिसामग्रीशून्यादङ्कुरोत्पत्तिरिष्टा दृष्टा श्रुता वा । अन्यथा-'इकोवि नमुक्कारो जिणवरवसहस्स बद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥१॥ इत्याद्याकर्णनोर्वीकृतकर्णेन कल्पसूत्र-श्रवणमप्युपेक्षणीय स्यात् । तदपेक्षया वीरनमस्कारस्य सुखसाध्यत्वात् । तस्मात् सामग्र्येव बलवती। ___ अत एवोत्सूत्राद्युपहतस्याऽनेकशः कल्पसूत्रश्रवणेऽपि अनन्तसंसारतादवस्थ्य तस्य सामय्यभावात् । सामग्री च प्रवचनाs विरोधेनैव भवति । प्रवचनाऽविरोधस्तु उत्सूत्राद्युपहतस्याऽसम्भव्येव । तस्मात् स्वल्पमपि धर्माऽनुष्ठानं तदितरधर्माऽनुष्ठानाऽविरोधेनैव श्रेयोबी नेतरत् । यत: 'आराध्येनाऽविरोधेन, स्वल्पं यत्सुकृतं कृतम् । तत्सर्व श्रेयसां बीजं, वैपरीत्यं विपर्यये' ॥१॥। तदपि धर्माऽनुष्ठान १ एकाग्रचित्ता जिनशासने प्रभावना-पूजापरायणा ये । त्रिसप्तवाराः शृण्वन्ति कल्पं भवार्णवं गौतम ! ते तरन्ति ॥ Bri%tit% % All॥१८ JainEduc. For Private & Personal use only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy