________________
॥१७॥
RASHREE
ऽवग्रहक्षेत्रमाङ्गीकृत्यै कताऽवस्थानेन जयन्यतोऽपि सप्ततिदिनमानः पर्युषणाकल्पः समाराधनीयः॥
तदेवं समुपस्थिते पर्युषणाकल्पे पर्युषणापर्वदिनाऽन्तर्मङ्गलनिमित्तं पञ्चभिरेव दिनैर्वाच्यमानस्याऽस्य पर्युषणाकल्पाऽध्ययनस्य श्रवणं काकदन्तपरीक्षावन्निःप्रयोजनं, कण्टकशाखामर्दनवञ्च साऽपायं भविष्यतीति पराऽऽशङ्कापराकृतये तन्माहात्म्य
यथा-'यथा द्रुमेषु कल्पद्रुः, सर्वकामफलप्रदः । यथौषधीषु पीयूष, सर्वरोगहरं परम् ॥१॥ रत्नेषु गरुडोद्गारो, यथा सर्व विषापहः । मन्त्राऽधिराजो मन्त्रेषु, यथा सर्वाऽर्थसाधकः ॥२॥ यथा पर्वसु दीपाली, सर्वाऽऽत्मसु सुखावहा । कल्पः सद्धर्मशास्त्रेषु, पापव्यापहरस्तथा ॥३॥ कल्पः पर्युषणाभिधः कलिमलप्रध्वंसबद्धाऽऽदरः, कल्पः सर्वसमीहितोदयविधौ कल्पद्रुकल्पः कलौ । ये कल्पं परिवाचयन्ति भविका शृण्वन्ति ये चाऽऽदरात् , ते कल्पेषु विहृत्य मुक्तिवनितोत्सङ्गे सदा शेरते ॥४॥ श्रीमद्वीरचरित्रवीजमभवच्छ्रीपाश्ववृक्षाऽङ्करः, स्कन्धो नेमिचरित्रमादिमजिनव्याख्या च शाखाचयः । पुष्पाणि स्थविरत नस्य च कथोपादेय हेयं तथा, सौरभ्यं फलमत्र निवृतिमयं श्रीकल्पकल्पद्र मे ॥५॥ नाऽईतः परमो देवो, न मुक्तेः परमं पदम् । न श्रीशत्रुञ्जयात्तीर्थ, श्रीकल्पान्न परं श्रुतम् ॥६॥ पुण्यानामुत्तमं पुण्यं, श्रुतानामुत्तमं श्रुतम् । ध्येयानामुत्तमं ध्येयं, जिनैः श्रीकल्प उच्यते ॥७॥ आचारात्तपसा कल्पः, कल्पः कल्पदरी सिते । कल्पो रसायनं सम्यग , कल्पस्तत्वाऽर्थदीपनः ।।८।। वाचनात्साहाय्यदानात , सर्वाऽक्षरथुतेरपि । विधिनाऽऽराधितः कल्प: शिवदोऽन्तभवाऽष्टकम् ॥९॥
७
॥१७
Jain Education
motional
For Privale & Personal use only