________________
श्रीकल्प
किरणावली टीका व्या०८
॥३७४॥
कियदिनानि भोजयित्वा संविग्नान् पञ्चशतशिष्यान् सहोदाय अनशनार्थ वार्यमाणमपि अतिष्ठन्त क्षुल्ल कथमपि विप्रतार्य गिरिमारोहत् । स च 'मा भूदगुरूणामप्रीतिः' इति गिरिमृले एवं तप्तशिलातले अनशनं कृत्वा स्वरलङ्कृतवान् । देवैस्तुतन्महिमान क्रियमाणं दृष्ट्वा साधवोऽत्यन्तं स्थिरीभूताः। तत्र च मोदकादिभिः निमन्त्रयन्त्या मिथ्यायदेव्या अप्रीति विज्ञाय अन्याऽऽसनगिरौ गत्वा अनशनेन दिवं प्रापत् । ततः-शक्रेण सरथेन गिरेः प्रदक्षिणीकरणात् 'रथावत' इति नामाऽजनि। तरूणां च नमनाद् अद्यापि तरवो नम्रीभूता एव जायन्ते। तत्र च दशमपूर्व 'तुर्य संहननं व्युच्छिन्नं । तदनु च श्रीवज्रसेन: सोपारके जिनदत्तश्राद्धभार्येश्वरीगृहं गतः। तया च लक्षमूल्यम् अन्नं पक्त्वा प्रक्षिप्यमाणं विषं गुरुवचः प्रोच्य न्यवारयत् (न्यवारि)। प्रभाते पोतेः प्रचुरधान्यागमनात् सञ्जाते सुभिक्षे जिनदत्तो भार्या-नागेन्द्र-चन्द्रादितनयपरिवृतः प्रावाजीत् । ततः-तेभ्यः चतस्रः शाखा समजायन्त इति ॥ (थेरेहितो णं अजसमिएहिंतो गोयमसगुत्तेहिंतो इत्थ णं बंदीविया साहा णिग्गया)
आभीरदेशे अचलपुराऽऽसन्न कन्ना-बेन्ना'नद्योःमध्ये ब्रह्मद्वीपे पञ्चशततापसाः। तेप्चेकः पादले पेन प्रलेपमात्रेण 'बेन्ना' मुत्तीर्य पारणार्थ याति । तत:-'अहो ! अस्य तपःशक्तिः' इति सञ्जातचेतश्चित्रो विचित्रो जनः तद्भक्तिपरायणः-'भवद्गुरूणां न कोऽपि प्रभावः' इति-श्राद्धनिन्दातत्परश्वासीत् । तत:-तैः श्रीवज्रस्वामीमातुलाऽऽर्यसमितसूरयः आहूताः। तैरूचे-स्तोक| मिदं । यत:-'पादले पशक्तिः' इति । श्राद्धैः ते स्वगृहे पादपादुकाधावनपुरस्सरं भोजिताः। ततः-तैः सहैव सर्वेऽपि श्राद्धा १. दुष्कर्मावनिभिद्वजे श्रीवजे स्वर्गमीयुषि । व्युच्छिन्नं दशमं पूर्व तुर्य सहननं तथा ॥१२॥ परिशिष्टपर्वणि
॥३७४॥
Jain Educat
t
ational
For Private & Personal use only
"Mobrary.org