________________
॥३७३॥
AAAAAAA
इति शङ्कया शक्त्या सक्षिप्तरूपः, क्षीराबवलब्ध्या राजादीनां धर्मोपदेशं दिदेश । द्वितीये अति-'न प्रभोः गुणानुरूप रूपम्' इति पौरालापं श्रुत्वा विकुर्वितसहस्राजस्थ: स्वाभाविकरूपेण धर्ममुपदिशन् अखिलानपि तान् विस्मापितवान् । तत्र च धनश्रेष्ठितनया रुक्मिणीनाम्नी साध्वीभ्यःप्राग-विज्ञातगुणानुरागिणी सती कोटीधनसहिता पित्रा प्रदीयमानाऽपि प्रबोध्य प्रवाजिता । __ अत्र कविः-'मोहाब्धिश्चुलुकी चक्रे येन बालेन लीलया । स्त्रीनदीस्नेहपूरस्तं वर्षि प्लावयेत्कथम् ? ॥१॥
ततः-स्वामिना पदानुसारिलब्ध्या श्रीआचाराङ्गमहापरिज्ञाऽध्ययनात् 'नभोगविद्या' उद्दभ्रे । एकदा-उत्तरस्यां दुर्भिक्षे श्रीसङ्घ पटे संस्थाप्य चारिग्रहणार्थ गतशय्यातरमपि लोचकरणेन साधर्मिकत्वं ख्यापयन्तं तत्राऽऽरोप्य च नभस्थ एव स्थाने स्थाने चैत्यादीनि वन्दमानः स मुभिक्षां पुरिकापुरी प्राप । तत्र च बौद्धराज्ञा जिनचैत्येषु पुष्पप्रतिषेधे कृते पर्युषणा-पर्वणि सखेदं श्राद्धैः विज्ञप्तः, व्योम्नोत्पत्य माहेश्वर्या पुर्या हुताशनाख्यदेवस्य बने पितृमित्रमारामिकं कुसुमप्रगुणीकरणार्थप्रादिश्य हिमवददि गतः। तत्र च श्रीदेव्या ववन्दे। तदनु प्राग देवाऽर्चार्थ विरचितमहापद्म, तदर्षितं । हुताशनवनाविंशतिलक्षाणि पुष्पाणि चादाय, विकुळ च विमानं प्रारमित्रजृम्भकाऽमरकृतगीतबादित्राद्यतुलोत्सवैः आगत्य अहन्मतं प्राभावयत् । ततःनृपतिरपि श्राद्धो बभूव । अन्यदा दक्षिणापथे बिहरन् श्रीवत्रः श्लेष्मप्रकोपे भोजनादनु ग्रहणाय कर्णे स्थापितसुण्ठयाः प्रतिक्रान्तिमुखपोतिकाप्रतिलेखनावसरे पतने प्रमादमागम्य अनशनार्थी सन् 'द्वादशाब्दं दुर्भिक्षं विभाव्य'
'लक्षमूल्यौदनाद्भिक्षा, यत्राहि त्वमवाप्नुयाः । सुमिशनवबुद्धयेथाः, तदुत्तरदिनोषसि ॥१॥ इत्युक्त्वा वज्रसेनाभिख्यं स्वशिष्यम् अन्यत्र व्यहारयत् । स्वान्तिकस्थसाधूंश्च दुर्भिक्षे भिक्षामलभमानान् विद्यापिण्डेन
RAPEOBAHARHAAR
6. कि. ३२
॥३७३॥
Sain Educ
a
tional
For Privale & Personal Use Only
library.org