SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ॥३६॥ भोजितो, विसूचिकया चारित्राऽनुमोदनातो मृत्वा, उज्जयिन्यां श्रेणिकराजपट्टे कोणिकः, तत्पट्टे उदायी, तत्प? नवनन्दाः, तत्पट्टे चन्द्रगुप्तः, तत्पट्टे बिन्दुसारः, तत्पट्टे अशोकश्रीः, तस्य सुतः कुणालः, तन्नन्दनः त्रिखण्डभोक्ता सम्प्रतिनामा भूपतिरभूत् । स च जातमात्र एवं पितामहदत्तराज्यो, अन्यदा रथयात्रार्थाऽऽगत-श्रीमुहस्तिसूरीन् दृष्ट्वा जातजातिस्मृतिः'अव्यक्तसामायिकस्य किं फलम् ?' इति पृच्छन् गुरुभि:-'तत्फलं राज्यादि' इति उक्ते जातप्रत्ययः, दत्तोपयोगैः तैः प्रतिबोधितः सन् सपादकोटिबिम्ब-सपादलक्षनवीनजिनभवन-पत्रिंशत्सहस्रजीर्णप्रासादोद्धार-पश्चनवतिसहस्रपित्तलमयप्रतिमाऽनेकशतसहस्रसत्रशालादिभिः विभूषितां त्रिखण्डामपि महीमकरोत् । अनार्यदेशानपि बरं मुक्त्वा पूर्व साधुवेषभृत्स्ववण्ठप्रेषणादिना साधुविहारयोग्यान् स्वसेवकनृपान् जैनधर्मरताँश्च चकार । तथा-'वस्त्रपात्राऽनदध्यादि-प्रामुकद्रव्यविक्रयम् । ये कुर्वन्त्यथ तानुर्वीपतिः सम्प्रतिरूचिवान् ॥१॥ साधुभ्यः सञ्चरद्भयोऽग्रे, ढौकनीयं स्ववस्तु भोः। ते यदाऽऽददते पूज्या-स्तेभ्यो दातव्यमेव तत् ॥२॥ अस्मत्कोशाधिकारी च, छन्नं दास्यति याचितम् । मूल्यमभ्युलसल्लाभ, समस्तं तस्य वस्तुनः ॥३॥ अथ ते पृथिवीभर्नु-राज्ञया तद्वयधुर्मुदा । अशुद्धमपि तच्छुद्ध-बुद्धया त्वादायि साधुभिः ॥४॥ (थेरस्सणं अजसुहथिस्स वासिट्ठसगोत्तस्त अंतेवासी दुवे थेरा-सुट्टियसुप्पडिवुद्धा कोडियकाकंदगा वग्यावच्चसगुत्ता ९) <स्थविरस्य आयमुहस्तेः वाशिहगोत्रस्य शिष्यो द्वौ स्थपिरौ> 'मुद्विअ-मुप्पडियुद्ध'त्ति । सुस्थितौमुविहितक्रियानिष्ठौ सुप्रतिबुद्धौ-मुज्ञाततत्त्वौ, ततो विशेषणकर्मधारयः। 'कोटिक-काकन्दिको' इति नाम < व्याघ्रापत्यगोत्रौ । क.कि.32 ॥३६१॥ Jain Educ a tional For Private & Personal use only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy