________________
श्रीकल्प
किरणावली टीका व्या०८
॥३६०॥
AAAAAAACARE
अस्माभिः समं प्रवजितः श्रीयकः, पर्वणि मयैव उपवासं कारितः, स्वर्गतः। तत:-'अहं-तत्प्रायश्चित्तयाचनार्थ, श्रीसधे | प्रतिमास्थे, शासनदेव्या श्रीसीमन्धरस्वामीपार्श्व नीता । तन्मुखाच्चूलाद्वयं लात्वाऽऽगाम्' इति] ततः-ताः स्वोपाश्रये गताः। ततः श्रीगुरुभिः तं [प्रागमित्रद्विजगृहनिधिप्रकाशनरूपं चाऽपराधमुद्भाव्य 'वाचनाया अयोग्योऽसि' इति प्रोक्ते सङ्घाऽऽग्रहाद् 'अन्यस्मै त्वया न देया' इत्युक्त्वा अग्रतः सूत्रतो वाचना ददे।
केवली चरमो जम्बू-स्वाम्यथ प्रभवप्रभुः । शय्यंभवो यशोभद्रः सम्भूतविजयस्तथा ॥३३॥ भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् । (अभि० चिं०)
(थेरस्स णं अन्नथूलभद्दस्स गोयमसगोत्तस्स अंतेवासी दुवे थेरा-थेरे अजमहागिरी एलावच्चसगोत्ते, थेरे अजसुहत्थी वासिढसगोत्ते ८) < स्थविरस्य आर्यस्थूलभद्रस्य गौतमगोत्रस्य शिष्यौ द्वौ स्थविरौ-स्थबिरः आर्यमहागिरिः एलापत्यगोत्रः, स्थविरः आर्यसुहस्ती वाशिष्ठगोत्र:> 'अज्जमहागिरी' ति । 'वुच्छिन्ने जिणकप्पे काही जिणकप्पतुलणमिह धीरो। तं वंदे मुणिवसहं महागिरिं परमचरणधरं ॥१॥
जिणकप्पपरीकम्मं जो कासी जस्स संथवमकासी । सिद्विघरंमि सुहत्थी तं अजमहागिरिं वंदे ॥२॥ 'अजसुहत्थी' ति । वंदे अज्जमहत्थी मुणिपवरं जेण संपईराया । रिद्धि सव्वपसिद्धं चारित्ता पाविओ परमं ॥१॥
तथाहि-दुर्भिक्षे क्वापि इभ्यगृहे विविधां भिक्षां साधुभ्यो दीयमानां वीक्ष्य कश्चिद् द्रमकः श्रीमुहस्तिसूरिशिष्यसाधुभ्यो l भिक्षा मार्गयन्-'गुरवो जानन्ति' इति तैः उक्ते गुरुपाचेऽपि आगतः, तथैव याचमानो लाभं विभाव्य, दत्तदीक्षो, यथेच्छं
VACANCE
॥३६०॥
Jain Educ
a
tional
For Privale & Personal use only
IMonalibrary.org