SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ॥३५९॥ %A8%AA%A9-% रे ! काम ! वामनयना तव मुख्यमखं वीरा वसंतपिकपश्चमचन्द्रमुख्याः । स्वत्सेवका हरिविरंचिमहेश्वराद्या हा हा हताश ! मुनिनाऽपि कथं हतस्त्वम् ॥५॥ श्रीनन्दिषेण-रथने मि-मुनीश्वराई-बुद्धया त्वया मदन ! रे ! मुनिरेष दृष्टः। ज्ञातं न नेमि-मुनिजम्बू-सुदर्शनानां, तुर्यों भविष्यति निहत्य रणाङ्गणे माम् ॥६॥ श्रीनेमितोऽपि शकटालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । देवोऽद्रिदर्गमधिरुह्य जिगाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ॥७॥ स्त्रीविभ्रमैश्चलति लोलमना न धीरः, श्रीस्थूलभद्र इव तादृशसङ्कटेऽपि । चूर्णायते पदयोऽपि जलायते च, वैडूर्य मेति विकृति ज्वलनात् पविन ।।८।। अन्यदा द्वादशवर्षदुर्भिक्षप्रान्ते पाटलीपुरे अगुणनादिना विस्मृतामेकादशाङ्गी सङ्घसम्भूय संहितवान् । ततः-दृष्टिवादाय श्रोभद्रवादानयनाय श्रीसवेन मुनिद्वये प्रहिते-'महापागारम्भाः सम्प्रत्यागमनं न भावि' इति तेन ज्ञापिते पुनः प्रहितमुनिद्वन्द्वन-'सङ्घादेशं यो न कुर्यात् तस्य को दण्डः ?' इत्युक्ते गुरुभिरूचे-'म सङ्घबाह्यः क्रियते' पर श्रीसङ्घः शिष्यानत्र प्रहिणोतु यथा तेभ्यो वाचनां दद्मः। ततः-स्थूलभद्राद्याः पञ्चशतशिष्याः प्रहिताः । गुरुभिस्तु वाचनासप्तके प्रदीयमाने अन्ये उद्भग्नाः । स्थूलभद्रस्तु दशपूर्वो वस्तुयोनामध्यैष्ट । अन्यदा च स्वभगिनी: वन्दितुमायातीः ज्ञात्वा स्वशक्तिदर्शनाय सिंहरूपं चक्रे । ता भीताः प्रतिनिवृत्ताः। पुन: गुरुवचसा ज्ञात्वाऽऽयाताः । तं स्वभावस्थं ववन्दिरे । [यक्षया च प्रोचे SASARSAEBASIBASTI ४ ॥३५९॥ Jain Educ a tional For Private & Personal Use Only Najalnselibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy