________________
॥३५७॥
८०
सर्व ग्रहचारं ममादर्शयद्' इति । अन्यदा राज्ञः पुरो - लिखितकुण्डाल के वातप्रयोगात् पलार्द्ध टिमज्ञात्वा द्विपञ्चाशत्पलमानमत्स्यपातकथने, श्रीभद्रबाहुभिः तदन्ते पातः सार्दैकपञ्चाशत् पलमानं चाऽवादि । तथा अन्यदा तेन नृपनन्दनस्य शतवर्षाऽऽयुः वर्त्तने- 'एते न व्यवहारज्ञा' इति जैननिन्दायां च क्रियमाणायां, गुरुभिः - 'सप्तदिनैः विडालिकातः मृतिरूचे' । तदनु राजा पुरात् सर्वविडालिकाकर्षणेऽपि सप्तमदिने स्तन्यं पिवतो बालस्योपरि बिडालिकाकारवक्त्रार्गला पातेन मरणे, गुरूणां प्रशंसा तस्य च निन्दा सर्वत्र प्रससार । ततः - कोपात् मृत्वा व्यन्तरीभूय अशिवोत्पादनादिना सङ्घमुपसर्गयन्, श्रीगुरूभिः 'उपसर्ग हर स्तोत्रं' कृत्वा न्यवारि । उक्तं च
'उवसग्गहरं थोतं काऊण जेण संघकल्लाणं । करुणापरेण विहियं स भद्रबाहु गुरु जयउ || १ ||
( धेरस्स णं अजसंभूअविजयस्स माढरसगुत्तस्स अंतेवासी थेरे अजथूलभद्दे गोयमसगोत्ते ७) < स्थविरस्य आर्यसम्भूतविजयस्य माढरगोत्रस्य शिष्यः स्थविरः आर्यस्थूलभद्रः गौतमगोत्र : > 'अज्जथूलभद्दे' ति । पाटलीपुरे शकटालमन्त्रिपुत्रः श्रीस्थूलभद्र :- द्वादशवर्णाणि कोशागृहे स्थितः । वररुचिप्रयोगान्मृते च पितरि, नन्दराज्ञाssar मन्त्रमुद्रादानाय अभ्यर्थितः सन् पितृमृत्युं चित्ते विचिन्त्य स्वयं दीक्षामादत्त । पश्चाच्च श्री सम्भूतविजयान्तिके व्रतानि प्रतिपद्य, तदादेशपुरस्सरं कोशागृहे चतुर्मासकमस्थात् । तदन्ते बहुहावभावविधायिनीमपि तां प्रतिबोध्यः गुरुसमीपमागतः सन् तैः 'दुष्कर- दुष्करकारक' इति सङ्घसमक्षं प्रोचे । तद्वचसा पूर्वायाता सिंहगुहा ऽहिबिल-कूपकाष्टस्थायिनी मुनित्रयी दूना । तेषु सिंहगुहास्थायी मुनिः मत्सरेण गुरुणा निवार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे गतः । दृष्ट्वा च
Jain Education nemnational
For Private & Personal Use Only
॥ ३५७॥
helibrary.org