SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प-3ा पञ्चाशद्वर्षाऽन्ते दीक्षा, त्रिंशद्वर्षाणि यावत् श्रीवीरचरणकमलपरिचर्या, श्रीवीरमोक्षाद् द्वादशवर्षाणि छायस्थ्यम् । एवंद्र किरणावली टीका द्विनवतिवर्षाऽन्ते केवलोत्पत्तिः। तत्र-अष्टौ वर्षाणि केवलिपर्याय परिपाल्य; शतवर्षाऽऽयुः जम्बूस्वामिनं स्वपदे संस्थाप्य ॥३५४॥ व्या०८ सिद्धिसौधमध्यास्त' ॥ (थेरस्स णं अजसुहम्मस्म अग्गिवेसायणगोत्तस्त अज जंबु नामे थेरे अंतेवासी कासवगोत्ते ण २) < स्थविरस्य आर्यसुधमणः अग्निवेश्यायनगोत्रस्य आर्य जम्बूनामा स्थविरः शिष्यः काश्यपगोत्र: > श्री जम्बूस्वामिस्वरूपं चैवम्-राजगृहे ऋषभ-धारिण्योः पुत्रः पञ्चमस्वर्गाच्च्युतः अवतीर्णः। जम्बूनामा शैशवाऽतिक्रमे श्रीसुधर्मस्वामिसमीपे सुकृतश्रवणपुरस्सरं प्रतिपन्नशीलसम्यक्त्वोऽपि पित्रोः दृढाग्रहबशाद् अष्टौ कन्या: परिणीतः, परं न || तासां प्रेमग भिः वाग्भिः व्यामोहं गतः। यत: 'सम्यक्त्व-शीलतुम्बाभ्यां भवाब्धिस्तीर्यते मुखम् । ते दधानो मुनिजम्बूः स्त्रीनदीषु कथं ब्रूडेत् ? ॥१॥ ___ ततः-रात्रौ ताः प्रतिबोधयश्चौर्यार्थमागतं चतुःशतनवनवतिचौरपरिकरितं प्रभवमपि प्राबोधयत् । तत:-प्रातः पञ्चशतचौर--अष्टप्रिया--पोडशतजनकजननी--स्वजनकजननीभिः सह स्वयं पञ्चशतसप्तविंशतितमः, नवनवतिकनककोटीः परित्यज्य प्रवजितः । क्रमेण दुस्तपतपस्तप्यमानः केवलज्ञानं सम्प्राप्य, षोडशवर्षाणि गार्हस्थ्ये, विंशतिः छामस्थ्ये, चतुश्चत्वारिंशद्वर्षाणि केवलित्वे इति अशीतिवर्षाणि सर्वाऽऽयुः परिपाल्य श्रीप्रभवप्रभु स्वपदे संस्थाप्य सिद्धिसौधमलश्चक्रे । अत्र कविघटना-'जम्बूसमस्तलारक्षो न भूतो न भविष्यति । शिवाऽध्यवाहकान् साधून चौरानपि चकार यः ॥१॥ ॥३५४॥ RECER-CAGe RECRUARc Jain Ed e rational For Privale & Personal Use Only ODolbrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy