________________
श्रीकल्प
॥३५२॥
विमानना
नाम्ना पुत्रश्च धनदेवस्य मण्डिकपुत्रः। केचिच्च-मण्डित इति नाम व्याचक्षते । अन्ये तु-'मण्डितस्य, पुत्र: मण्डितपुत्रः'
/किरणावलं
टीका इति समर्थयन्ति । तत्र-मण्डित इति धनदेवस्य नामान्तरमद्यम् । मण्डिक-मौर्यपुत्रयोः एकमातृकत्वेन भ्रात्रोः अपि यद्
व्या०८ भिन्नगोत्राभिधानं तत् पृथग्र जनकापेक्षया । तत्र-मण्डि कस्य पिता धनदेवः, मौर्यपुत्रस्य तु मौयः, माता तु 'विजयादेवी' एवैका; 'अविरोधश्च तत्र देशे एकस्मिन् पस्यौ मृते द्वितीयपतिवरणस्य' इति वृद्धाः। (से तेणटेणं अजो! एवं बुच्चइसमणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा हत्था) < अथ तेनाऽर्थेन > हे आर्य-नोदक! < एवमुच्यते श्रमणस्य भगवतो महावीरस्य नव गणाः, एकादश गणधराः अभवन् ॥३॥
['सव्वे एए समणस्स' इत्यादितः 'निरवञ्चिजा वुच्छिन्ना' इति पर्यन्तम् ] तत्र- (सव्वे एए समणस्स भगवओ महावीरस्स इकारस गणहरा दुवालसंगिणो चउद्दसपुग्विणो) इन्द्रभूत्यादयः सर्वेऽपि < एते श्रमणस्य भगवतो महावीरस्य एकादश > गणधराः द्वादशाऽङ्गिनः-आचाराङ्गादि-दृष्टिवादान्त श्रुतवन्तः स्वयं तत्प्रणयनात् । चतुर्दशपूर्विणः। 'द्वादशाऽङ्गिन' इति । एतेनैव चतुर्दशपूर्वित्वे लब्धे यत् पुनः एतदुपादानं, तदङ्गेषु चतुर्दशपूर्वाणां प्राधान्यख्यापनार्थ । प्राधान्यं च पूर्व प्रणयनात् , अनेकविद्यामन्त्राद्यर्थमयत्वात् , महाप्रमाणत्वाच्च । द्वादशाङ्गित्वं चतुर्दशपूर्वित्वं च सूत्रमात्रग्रहणेऽपि स्याद् इति तदपोहार्थमाह-(समत्तगणिपिडगधारगा) समस्तगणिपिटकधारका:-गणः अस्य अस्ति' इति गणि:-भावाऽऽचार्यः तस्य पिटकमिव-रत्नादिकरण्डकमिव गणिपिटकं-द्वादशाङ्गी । तदपि न देशतः स्थूलभद्रस्य इत्र, किन्तु समस्तं-सर्वाऽक्षरसन्निपातित्वात् तद्धारयन्ति सूत्रत: अर्थतश्च ये, ते तथा । 13॥३५२॥
Jain Educator Hernational
For Private & Personal use only
w
i
nelibrary.org
र