SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ॥३३९॥ विषयतृष्णा महतामपि मतिमोहं कुरुते' इति भरतश्चिन्तयति - 'द्वयोरपि पूजार्हयोः प्रथमं किं तातम् ? उत चक्रं वा पूजयामि ?” इति चिन्तयन् - 'चक्रं तावदैहिक सुखहेतुः, तातस्तु शिवदायकत्वात् परलोकाऽनन्तानन्दहेतुः' अतः - तातं पूजयामि । यतः'ताते पूजिते चक्रमपि पूजितं भवेद्' इति विचिन्त्य भरतः सर्वद्वर्या भगवन्तं वन्दितुं प्रवृत्तः । मरुदेवा तावद् भगवति प्रत्रजिते भरतराज्यश्रियं निरीक्ष्य प्रत्यहं भणति 'पृथ्वीं प्रतिपालयन्त्यपि भरतो बाहुबली परे सुताः । न तु कोऽपि करोति सङ्कथां मम सूनोरिति धिग् विधिक्रमम् ॥ १॥ साक्षाद्भरतं प्रत्यपि - ' म्लानां मौलिखजमित्र परित्यज्य मां स्त्रां च देह-प्रादुर्भूतमलमिव जरचीरवच्चेश्वरत्वम् । एकाकी मे गहनमविशत् सोऽङ्गजस्तं शृणोमि क्षुत्तृष्णाभ्यां वत द्रुतमहो ! दुर्मरा न म्रियेऽहम् ||२|| भरतोsपि - 'अयि ! मातरहं बाहुबल्याद्याः सन्ति ते सुताः । तवैव ते स्वचित्ते तान् धेहि ताम्यसि किं सुधा ?' ||३|| इति भरतोके स्वामिन्याह- 'सहकारफलमनोरथपरम्परा किं व्यपैति चिञ्चिकया ? | नन्दकान्तगुणा यस्य कस्याऽप्यन्यस्य किं वा स्युः ? || ४ || इत्याद्युद्वेगं गता तीर्थकर विभूतिं वर्णयन्तमपि भरतं न प्रत्येति । ततः तस्याः पुत्रशोकेन तेजोहीनचक्षुपी सञ्जाते । अतः - भरतेन गच्छता भगवती विज्ञप्ता- 'अम्ब ! एहि, येन भगवतो विभूतिं दर्शयामि' । ततः- भरतः हस्तिस्कन्धे पुरतः कृत्वा निर्गतः । समवसरणे प्रत्यासन्ने च विमानारूढेनोत्तरता सुरसमूहेन विराजमानं गगनमण्डलं ध्वजपताकाकलितम् अनेक देवदुन्दुभ्यादिशब्दपूरितं दिग्मण्डलं च निरीक्ष्य भरतेन भणिता भगवती - 'अम्ब । प्रेक्षस्व पुत्रर्द्धिम्' एतया सह मम Jain Educaternational For Private & Personal Use Only ॥३३९॥ www.jainelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy