________________
श्रीकल्प
किरणावत
टीका
॥१४॥
व्या०
ला तस्य चारित्राद्युपहन्तृत्वात् । यदुक्तं--
'सव्वेवि अ अइआरा संजलणाणं तु उदयो हुंति । मूलछिज्जे पुण होइ बारसहं कसायाणं' ।। (आव०नि० गा०११०) यच्चामीषां जडत्वं तन्मेधामधिकृत्यैव बोध्यं, न पुनः परकीयलक्ष्याऽभिप्रायाऽवगममाश्रित्याऽपि । यद्वा-वक्रजडानां जडत्वं मायायामेवाऽन्तर्भवति । यत:-ते जानन्तोऽपि परप्रत्यायनार्थ माययैवाऽसदप्यात्मीयं जडत्वमाविष्कुर्वन्ति । तस्माजडत्वमुपचरितं माया तु वास्तवीति । वास्तव्येव मायाहेतुका चारित्रस्खलना इति भावः।
केचिच्चाऽतिचारवाहुल्यात् दुष्पमायां चारित्रमेव न मन्यते तदप्यसमञ्जसमेव । 'न विणा तित्थं णियंठेहि' (जीतकल्प. गा० ३१८ व्यवहार० ३८९) । इति प्रवचनवचनान्निग्रन्थैविना तीर्थस्यैवाऽसम्भवात् । व्यवहारभाष्ये त्वेवंविधवक्तृणां महतः प्रायश्चित्तस्योक्तत्वाच । तथा
'जो भणइ नत्थि धम्मो न य सामाइ न चेव य वयाई । सो समणसंघवज्झो कायरो समणसंवेण" ॥ इत्याद्युक्तेश्च । तस्मात् पूर्वसाध्वपेक्षया हीनहीनतरक्रियापरिणामवत्त्वेऽपि नृपगोपवृक्षवृषभपुष्करिण्याद्यागमोक्त दृष्टान्तेन दुष्पमसाधूनां साधुत्वमेवेत्यादि बहुवक्तव्यं ग्रन्थाऽन्तरादवगन्तव्यमिति ।
यस्तु सप्ततिदिनमानः पर्युषणाकल्पो नैयत्येनोक्तः स चाऽशिवादिकारणाऽभावे सति इति बोध्यम् । अशिवादिदोषसद्भावे तु अर्वागपि निर्गमने जिनाऽऽज्ञैव । यतः उक्तम्
'असिवे ओमोअरिए रायदुट्टे भए अ गेलण्णे। एएहि कारणेहि अपत्ते होइ निग्गमणं ॥३१६१॥ काइयभूमी संथारए
॥१४॥
JainEdu
For Private & Personal Use Only
www.jainelibrary.org