________________
॥१३॥
VERSCHICHSHSHSHIRUGAR
मध्याऽऽगतेन पित्रा खट्वास्थो हसन्नुपालब्धः, प्राह-युष्माभिरेव शिक्षितोऽहं यत् 'प्रत्युत्तरं न देयम् ॥ इति श्रेष्ठिपुत्रदृष्टान्तः॥
अजितादितीर्थे तु ऋजुप्रज्ञत्वादुभयमपि सुकरमेव । दृष्टान्तस्तु नटनृत्याऽवलोककसाधोरेव । यथा केचिदजितादिजिनसाधवस्तथैव पृष्टाः, ऋजुत्वादूचुः, यथा--'नटं वीक्षमाणाः स्थिताः' ततो गुरुणा तथैवोक्ताः । पुनरन्यदा नटीं दृष्ट्वा प्रज्ञत्वाद् | विकल्पितवन्तः 'नटवनट थपि न वीक्षितव्या रागहेतुत्वाद्' इति ।
ननु आस्ताम् ऋजुप्रज्ञानां चारित्रम् ऋजुजडानां पुनः कथम् ? इति चेत् , उच्यते-सत्यामप्यनाभोगतः स्खलनायाम् ऋजुजडानां तीव्र पङ्कलेशाऽभावात् भावतः शुद्धत्वात् । स्थिरभावेनैव चारित्रपरिणामः तीर्थकृद्भिनिर्दिष्टः । तथा सहकारिवशेन कादाचित्को ह्यस्थिरभावोऽपि न चारित्रपरिणामं हन्ति । 'न ह्यग्निसम्पर्कादुष्णमपि वज्र वज्रत्वमपि जहाति' इति । यदाहः श्रीहरिभद्रसूरिपादाः-'एवं विहाण वि इहं चरणं दिट्ट तिलोगनाहेहिं । जोगाण थिरो भावो जम्हा एएसिं सुद्धो उ॥ अथिरो अ होइ भावो सहकारिवसेग न उण तं हणइ । जलणा जायइ उण्हं बज्ज ण उ चयइ तत्तंपि' ॥ इति । (पञ्चा० ८३९-८४०)
ननु एवं युक्तश्चरणाऽनपगम ऋजुजडानामावलक्षणस्य गुणस्य सद्भावात् वक्रजडानां पुनर्दोषद्वयसद्भावात् कथमसौ ? इति चेद , इत्यत्राऽपि उच्यते-यथा ऋजुनडानामनाभोगतः स्वलना, तथा 'माया एव वक्रता' इति वचनात् वक्रजडानां प्रायः कालाऽनुभावतोऽसकुन्मातृस्थानादेव । तच्च सज्वलनकषायाणामेव अतिचारहेतुत्वात् तत्सङ्गतमेवाऽत्र ग्राह्यं, नेतरत् ।
RECRUECRECRUARANG
क.कि.२
Jain Educ
a
tional
For Private & Personal use only