________________
श्रीकल्प
॥ १२ ॥
मागताः ?' । ऋजुत्वात्ते चोचुः यथा - 'नटं नृत्यन्तं प्रेक्षमाणाः स्थिताः । ततो गुरुस्तान शिष्यत् यथा - ' मा पुनरेवं कार्षुः ' इति प्रतिपश्नवन्तश्च तत्ते । ततोऽन्यदा ते तथैव पृष्टा । ऊचुः यथा- 'नटीं नृत्यन्तीं वीक्षमाणाः स्थिताः प्रेरिताश्च गुरुणा । जडत्वादूचुः - भवद्भिर्नस्तदा निषिद्धो न नटी' इति । नटे हि निषिद्धे नटी निषिद्धैवेति प्रतिपत्तुं न शक्तिं तैरिति ।
अन्योऽपि दृष्टान्तो यथा- एकः कुङ्कणदेशजन्मा वणिग् वृद्धश्वे कुटुम्बमोहं सन्त्यज्य प्रव्रजितः । स चैकदेर्यापथिकीकायोत्सर्गे चिरकालं स्थितवान् । 'किं कारणम् !' इति गुरुणोक्ते - 'जीवदया चिन्तिता' इत्यवदत् । 'कथम् ?" इति पुनः पृष्टे'गृहे वसद्भिरस्माभिः क्षेत्रे वृक्षनिसूदनादिपुरस्सरमुप्तानि धान्यानि भूयांस्यभूवन् । इदानीं मत्पुत्रा निश्चिन्ता अकुशलाच करिष्यन्ति । तथा च ते वराकाः श्रुत्पीडिता मरिष्यन्ति' इति ऋजुत्वात् स्वाकृते कथिते गुरुभिरुक्तं - 'जीवघातादि विना कृषिर्नोत्पद्यते इति । 'दुर्ध्यातम्' इत्युक्ते 'मिथ्यादुष्कृतं दत्तवान् । इति कोङ्कणसाधुदृष्टान्तः ॥
वीरतीर्थे तु वक्रजडत्वाद् व्रतादिपालनं तद्विशुद्धिश्चेत्युभयमपि दुःसाध्यम् । अत्राऽपि दृष्टान्तद्वयं तत्र प्रथमो यथा'केचित्किल चरमजिनसाधवस्तथैव पृष्टा' ऊचुः यथा - 'नटं वीक्षमाणाः स्थिताः' ततो गुरुणा 'निषिद्धाः । पुनरन्यदा नहीं वीक्षमाणाः स्थिताः पृष्टाश्च वक्रतयोत्तराऽन्तराणि ददुः । निर्बन्धे च नटीमुक्तवन्त उपालब्धाश्च सन्तो जडत्वादूचुः, यथा - 'नट एव न द्रष्टव्य' इत्यस्माभिर्ज्ञातमासीदिति ।
द्वितीयो यथा - कश्चित् श्रेष्ठिपुत्रो दुर्विनीतः 'पित्रादीनां प्रत्युत्तरं न देयम्' इति स्वजनसमक्षं शिक्षितः । कदाचित्सर्वे बहिर्गतेषु गृहद्वारं दत्त्वा स्थितः । द्वाराssगते श्रेष्ठिना द्वारोद्घाटनार्थं बहुशः शब्दकरणेऽप्यवदन् भित्तेरुपरि प्रविश्य
Jain Educati temational
For Private & Personal Use Only
किरणावल टीका
व्या० १
॥ १२ ॥
weibrary.org