________________
॥ ११ ॥
'काऊ मासक तत्थेव ठियाण तीए मग्गसिरे । सालंबणयाणं पुण छम्मासिओ होइ जिहदुग्गहो' ॥ त्ति । (प्रव० सा० ७७५ - दशा० चूर्णि ७४)
एवं व्यावर्णित स्वरूपः पर्युषणाकल्पः प्रथमचरमजिनतीर्थे नियतः । शेषाणां त्वनियतः । यतस्ते दोषाऽभावे देशोनां पूर्व कोटिपीच्छन्त्येकाऽवस्थितिम् । इतरथा न मासमपि । इत्येवं विदेहेऽपि ।। इति पर्युषणाकल्पो दशमः ॥
एते दशाsपि कल्पा ऋषभवर्द्धमानतीर्थे नियता एव । अजितादीनां तीर्थेषु आचेलक्यौ-देशिक प्रतिक्रमण - राजपिण्डमास - पर्युषणालक्षणाः षट्कल्पा अनियता, शेषास्तु शय्यातर - चतुर्बत - पुरुष ज्येष्ठ - कृतिकर्मलक्षणाश्चत्वारो नियता एवेति । एवं दशानामपि कल्पानां नियताऽनियतऽविभागकरणे कारणं तावत् तत्तत्कालभाविनो मनुजा एव । यदुक्तं
'पुरिमा उजुजडाओ कजड्डाओ पच्छिमा । मज्झिमा उजुपण्णाओ तेण धम्मे दुहा कए || १ ||
'पुरिमाणं दुब्विमुज्झो चरिमाणं दुरणुपालओ कप्पो । मज्झिमगाण जिणाणं सुविसोझो सुहणुपालो य' ॥ १ ॥ ति । (पञ्चा० ८३६) बृहत्कल्प० ६४०३ जितकल्प० २०९१)
तत्र ऋषभतीर्थे ऋजुत्वेन व्रतादिप्रतिज्ञानिर्वाहित्वेऽपि नटनर्तकी नृत्यावलोककसाधुदृष्टान्तेन जडत्वाद्विशुद्धिर्दुःसाध्या । तथाहि -किल केचिदादिमजिनयतयो विचारभूमेर्गुरुसमीपमागताः । पृष्टाश्च गुरुभिः यथा - 'किमियच्चिराद् यूय
Jain Educatinational
१ (पूर्वे ऋजुजडा: वक्रजडाः पश्चिमाः । मध्यमा ऋजुप्राज्ञाः तेन धर्मो द्विधा कृतः ||१||
२ पूर्वेषां दुर्विशोभ्यः चरमाणां दुरनुपालः कल्पः । मध्यमकान जिनानां सुविशोध्यः सुखानुपालश्च ) || ८३६ ॥
For Private & Personal Use Only.
॥ ११ ॥
library.org