SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प 8.किरणावली टीका व्या०१ करणानि स्वानि-स्वायत्तीकुर्वन्ति । मङ्गलनिमित्तं च पश्चदिनानि यावत् पर्युषणाकल्पं कर्षयन्ति, पृच्छतां च गृहस्थानां पुरोऽधिकरणादिदोषसम्भवशङ्कया 'वयमत्र स्थिताः स्मो न वा' इति नियमाऽभावमेव वदन्ति इत्येष उत्सर्गः 'सेसकाल पजोसवंताण अववाओ' त्ति (निशीथ) वचनात् तथाविधक्षेत्रादिसामय्यभावे श्रावणकृष्णपञ्चम्यां पर्युपितव्यं, तदभावे दशम्यां, तदभावे पञ्चदश्याम् । एवं पश्चकपश्चकवृद्धिस्तावत्क्रियते यावत् भाद्रपदसितपश्चमी । तस्यां तु नियमतो गृहिज्ञातमेव पर्युषितव्यम् । अयं विधिः सङ्घाऽऽदेशाद् व्युच्छिन्नः। अत इदानीं स्वाऽभिगृहीतं गृहिज्ञातं चेत्युभयथाऽपि भाद्रसितचतुर्थ्यामेव पर्युषितव्यं । तत्र दिनानां पश्चाशद् आषाढसितचतुर्दश्या आरभ्य भाद्रसितचतुर्थ्यन्तं, सप्ततिस्तु चतुर्थ्या आरभ्य कार्तिकसितचतुर्दश्यन्तम् । अयं द्वेधाऽपि निरालम्बन स्थविर कल्पिकानामेव, जिनकल्पिकानां तु चातुर्मासिक एवेति । उक्तं च 'चाउम्मासुकोसो सत्तरिराइंदिआ जहष्णो उ । थेराण जिणाणं पुण नियमा उक्कोसओ चेव' ॥ त्ति । (पश्चा० ८३३ प्रवचनसारो० गा०६५८) पर्युषणाया अर्वाग् परत्र च मासवृद्धौ क्रमेण दिनानामशीतिः शतं च सम्पद्यते, कथं पञ्चाशत् सप्ततिर्वा ? इत्यादि आक्षेपपरिहारौ तु सामाचार्याम् 'अंतरावि से कप्पइ' इत्यतनग्रन्थव्याख्याऽवसरे वक्ष्यामः । साऽऽलम्बनस्तु स्थविरकल्पिकानामेव । विहितमासकल्पानां तत्रैव चतुर्मासकाऽनन्तरमपि मार्गशीर्ष यावदवस्थाने पाण्मासिकोऽवगन्तव्यः उक्तं च REASOBARDASHASABARSAR Sain E For Privale & Personal use only wwwijuirtelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy