________________
श्रीकल्प
किरणावली टीका व्या०७
1३३४॥
तौ-'भो! दारुणः खलु इदानीम् अस्माभिः वनवासविधिराश्रितः। तस्माद् यांत यूयं वगृहाणि, उपसर्पत वा भगवन्तम् ?। स एव अभिलषितफलदो भविष्यति' इति पित्रोः वचः प्रमाणीकृत्य कृतपितृप्रणामो भगवत्समीपमागत्य प्रतिमास्थिते भगवति जलाशयेभ्यो नलिनीपत्रैः उदकमानीय सर्वतः प्रवर्षणमाजानूच्छ्रयमानं सुगन्धिकुसुमप्रकरं च कृत्वा प्रतिदिनमुभयसन्ध्यं क्षितितलनिहितोत्तमाङ्गकरजानू-राज्यसंविभागप्रदो भवतु' इति विज्ञप्य उभयपाधैं खड्गव्यग्रहस्तो तस्थतुः । एवं च कियता कालेन 'धरणो' नाम नागराजा भगवन्तं वन्दितुमागतः। स च ताभ्याम् अविज्ञप्तोऽपि अबवीत्-'भो ! भगवान् त्यक्तसङ्गः, नाऽस्य किश्चिदस्ति' अतः-'मा भगवन्तं याचेथाम् । भगवतो भक्त्या अहमेव युवाभ्यां दास्यामि' इति भणित्वा अष्टचत्वारिंशत् सहस्र [सङ्ख्याका] विद्याः, तत्र-गौरी-गान्धारी-रोहिणी-प्रज्ञप्तिलक्षणाः चतस्रो महाविद्याश्च पाठसिद्धा एव दत्तवान् । उक्तवाँश्च-'इमाभिः विद्याभिः विद्याधरद्धिप्राप्तौ सन्तो, स्वजनं जनपदं च गृहीत्वा यातं युवां वैताढये नगे, दक्षिण विद्याधरश्रेण्यां गौरेय-गन्धार प्रमुखान् अष्टौ निकायान् रथनूपुरचक्रवालप्रमुखाणि च पश्चाशन्नगराणि । उत्तरश्रेण्यां च पण्ड क वंशालयप्रमुखान् अष्टौ निकायान् गगनवल्लभप्रमुखाणि च षष्टिनगराणि निवास्य विहरतम्' इति । ततः-तौ तल्लब्धप्रसादौ कामितं पुष्पकविमानं विकुळ तीर्थकरं नागराजं च प्रणम्य पुष्पकविमानाऽऽरूढौ कच्छमहाकच्छौ प्रति भगवत्प्रसाद ज्ञापयन्ती, विनीतां नगरी प्रविश्य भरतस्य राज्ञः तमर्थ निवेद्य, स्वजनं परिजनं चाऽऽदाय वैताढथे नगे-'दक्षिणस्यां नमि-उत्तरस्यां च विनमि' इति तौ तथैव कृत्वा विहरतः स्म इति । भगवाँश्च अन्नपानादिदानाऽकुशलैः समृद्रिभाग्भिः मनुष्यैः वस्त्राभरणगन्धमाल्यालङ्कारकनकमणिमौक्तिकाऽऽसनशयन
15 AMERCAMERकर
॥३३४॥
Jain E
t ernational
For Privale & Personal use only
tainelibrary.org