SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ॥३३३॥ ARRESTERESTEGAERI-RIKARANGABA इति कृतप्रतिज्ञैः स्वयमेव कृतचतुर्मुष्टिकलोवैः, क्वचित् कृतपञ्चमुष्टिकलोचैः उग्रादिकुलसमुत्पन्नैः चतुःसहस्रसङ्ख्याकैः आत्मीयपुरुषैः सह <एकं देवदृष्यं-दिव्यवस्रविशेषम् आदाय द्रव्यतः भावतश्च मुण्डो भूत्वा अगारात्-गृहान् निष्क्रम्य अनगारितां-साधुतां प्रवजित:-श्रमणीभूतः > स्वयमेव सामायिकं प्रतिपद्य गृहीतघोराभिग्रहो भगवान् ग्रामानुग्रामं विचरति ॥२११॥ ['उसमे गं अरहा कोसलिए' इत्यादितः 'पासमाणे विहरइ' ति यावत् ] तत्र-(उसभेणं अरहा कोसलिए एगं वाससहस्सं निच्चं वोसट्टकाए चिअत्तदेहे) < ऋषभःअहन् कौशलिकः एकं वर्षसहस्रं नित्यं व्युत्सृष्टकायः-उपेक्षितशरीरः। अत एव त्यक्तदेहः । (जाव अप्पाणं भावेमाणस्स) <यावत् आत्मानं भावयत: > तदानीं लोकस्य अति समृद्धत्वाद् अर्थिनामभागत् कीदृशी भिक्षा? कीदृशा वा भिक्षाचराः ? इति लोको न जानाति । तेन ते भिक्षामलभमानाः क्षुधादिबाधिततनवश्च मौनावलम्बिनो भगवतः सकाशात् उपदेशमलभमानाः कच्छ-महाकच्छौ प्रति विज्ञप्ति कृतवन्त:-'भो ! अस्माकम् अनाथानां भवन्तौ नाथौ भवताम् । यदस्माभिरेवं क्षुत्तबाधितैः कियत् कालं स्थातव्यम् ?'। तो अपि आहतु:-'वयमपि न जानीमः'। यदि पूर्वमेव भगवान् पृष्टोऽभविष्यत् तदा शोभनमभविष्यत् । इदानीं तु भरतलज्जया गृहे गन्तुमयुक्तम् । आहारमन्तरेण च स्थातुमप्यशक्यम् । अत:-विचार्यमाणो वनवास एव श्रेयान् । तत्राऽपि उपवासरताः परिणतशटितपत्राद्युपभोगिनो भगवन्तमेव ध्यायन्तः स्थास्याम इति सम्प्रधार्य सम्मत्या गङ्गातटे वर्द्धिताऽसंस्कृतालकत्वाज जटिलाः तापसाः सञ्जज्ञिरे । यो कच्छ-महाकच्छसुतौ नमि-विनमिनामानौ देशान्तरापाती भरते अबहीलनां कृत्वा पित्रनुरागात् ताभ्यामेव सह विहृतवन्तौ । तौ च वनाश्रयणकाले पितृभ्यामेव सम्बोधि UAGRAIGALUCRICASA ॥३३३॥ Sain Educ a tional For Privale & Personal use only D ibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy