SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ॥३२७॥ CC विलम्ब्य भगवत्पादयोः उदकं प्रक्षिप्तवन्तः। एविधक्रियोपेताँश्च तान् दृष्ट्वा तुष्टः शक्रः । अचिन्तयत्-'अहो खलु विनीता एते पुरुषाः' इति चैश्रमणमाज्ञापितवान्-यदिह द्वादशयोजनविस्तीणों नवयोजन-विष्कम्भां 'विनीता' नाम्नी नगरी निष्पादय ? इति । आज्ञासमनन्तरमेव दिव्यभवनपङ्क्ति -प्राकारोपशोभितां नगरीम् अवासयत् । तत:- भगवान् राज्ये हस्त्यश्वगवादीनां सङ्ग्रह पुरस्सरम् उग्रभोगराजन्यक्षत्रियलक्षणानि चत्वारि कुलानि व्यवस्थापितवान् । तत्र उग्रदण्डकारित्वात् उग्राः, आरक्षकस्थानीयाः। भोगाईत्वाद् भोगाः, गुरुस्थानीयाः। समानव यस इतिकृत्वा रामन्याः, वयस्यस्थानीयाः । शेपप्रधानप्रकृतितया क्षत्रियाश्च । तदानीं च कालपरिहान्या ऋषभकुलकरकाले कल्पद्रुमफल मोगाऽभावेन इक्ष्वाकवः ते इक्षुभोजिन:, शेषास्तु पत्रपुष्पफलभोजिनः, अग्नेः अभावाद्वा अपयशाल्यौपधीभोजिनचासन् । कालानुभावात् तदजीर्णे स्वल्पं स्वल्पतरं च भुक्तवन्तः । तस्याऽप्य जीणे तैर्विज्ञप्तो भगानाह-हस्ताभ्यां घृष्ट्वा त्वचं चापनीय भुरध्वम् ? इति निशम्य तथैव कृते कियता कालेन ता अपि ते न जीर्णवन्तः। पुनः विज्ञप्तभगवदुपदेशेन प्रवालपुटे तिमिततन्दुल. भोजिनः। पुनरप्यजीणे कियन्तमपि कालं हस्ततलसंपुटे संस्थाप्य । पुनरप्यजीर्ण कक्षासु स्वेदयित्वा । एवमपि अजीर्णे हस्ताभ्यां घृष्ट्वा पत्रपुटे च तिमित्वा । एवमपि अजीर्णे पुनः हस्ततले मुहूर्त संस्थाप्य इत्यादिभङ्गकमोजिनो बभूवांसः।। ___ एवं च सति एकदा परस्परं द्रमघर्षणान्नवोत्थितप्रवृद्धज्यालावल्या समुज्ज्वलन्तं भूतलावलग्नं तृणादिकलापं कवलयन्तम् अग्निमुपलभ्य अभिनवरत्नबुद्धया ग्रहणाय प्रसारितपाणयः दह्यमानाः भीताः सन्त: भगवन्तं यथावद्ध्यतिकरकथनेन विज्ञपयामासुः। भगवता च अग्नेः उत्पत्ति विज्ञाय-'भो युगलिका ! उत्पन्नोऽग्निः । अत्र च शाल्याद्यौषधीः निधाय Sta ॥३२७॥ Jain Educ a tional For Private & Personal use only Throlibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy