________________
॥ ३२५॥
ह. कि. २८
ર
Jain Educa
एवमन्येऽपि तीर्थकृतः बालभावे अवगन्तव्याः । बालभावाऽतिक्रमे पुनः अग्निपक्वाहारमोजिनः । ऋषभस्तु आप्रव्रज्यां सुरानीतोत्तरकुरुकल्पद्रुमफलरसम् आस्वादितवान् । किञ्चिदूसातवर्षे च भगवति - 'प्रथमतीर्थ कुशस्थापनं शक्रजीतम् ' इति विचिन्त्य कथं रिक्तपाणिः स्वामिनः पुरो यामि ? इति महतीमिक्षुयष्टिमादाय, अनेक देवपरिवृतः शक्रः नाभिकुलकराङ्कस्थितस्य स्वामिनः पुरः तस्थौ । दृष्ट्वा चेक्षुयष्टिं हृष्टवदनेन स्वामिना करे प्रसारिते- 'मक्षयसि इक्षुम्?" इति भणित्वा दवा च तां इक्ष्वभिलापात् स्वामिनो वंश ' इक्ष्वाकु' नामा अभवत् । गोत्रमपि अस्य एतत् पूर्वजानामिक्ष्यभिलापात् 'काश्यप' नामा इति शक्रो वंशस्थापनां कृतवान् ।
अथेदृश्येव अवसरे किञ्चिन्मिथुनकं सञ्जाताऽपत्यं सदपत्यमिथुनकं तालवृक्षाघो विमुच्य रिरंसया क्रीडामन्दिरमगात् । ततः - पवनप्रेरितेन पतता तालफलेनैकस्मिन् दारके व्यापादिते तत् पितृमिथुनकं प्रतनुकषायं तां दारिकां संबद्ध कियता कालेन विपद्य सुरलोके समुत्पन्नम् । सा च उद्यानदेवतेवोत्कृष्टरूपा एकाकिन्येव वने विचचार । दृष्ट्वा च तां सुरसुन्दरीकल्पाम् अनल्पविस्मयोत्फुल्लनयना युगलिकनरा नाभिकुलकराय न्यवेदयन् । नाभिरपि - 'शिष्टा इयं सुनन्दानाम्नी ऋषभपत्नी भविष्यति' इति लोकज्ञापनपुरस्सरं तां गृहीतवान् । ततः सुनन्दा - सुमङ्गलाभ्यां सह प्रवर्द्धमानो भगवान् यौवनमनुप्राप्तः । शक्रोऽपि प्रथम तीर्थक्रुद्विवाहकृत्यम्- 'अस्माकं जीतम् ' इत्यनेक देवदेवीकोटिपरिवृतः समागत्य - 'स्वामिनो वरकृत्यं स्वयमेव कृतवान् । वधूकृत्यं च द्वयोः वरकन्ययोः देव्यः' इति । ततः ताभ्यां विषयोपभोगिनो भगवतः पदलक्षपूर्वेषु गतेषु 'भरतब्राह्मीयुगलम् अन्यानि चैकोनपञ्चाशत् युगलानि सुमङ्गला प्रसूतवती । बाहुबली - सुन्दरीयुगलं च सुनन्दा' इति ॥ २०९ ॥
emational
For Private & Personal Use Only
॥३२५॥
elibrary.org