SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ नमिनं नत्वा, रथनेमिः रे । रथनेमिमजानाना हाताय महासती । ततो धन-धनवती-भवादारभ्य नेम्यपि । तया सह स्वसम्बन्ध-माख्यादष्टभवावधि ॥६॥ प्रातिहार्यः सदाश्चयः, हृभरतिशयैरपि । विजहार हरत्पापं, भगवानवनीतले ॥७॥ विहरनन्यदा स्वामी, रैवते समवासरत् । रथने मिरुपादत्त, चारित्रं श्रीजिनान्तिके ॥८॥ अन्यदा नेमिनं नत्वा, रथनेमिः प्रतित्रजन् । बाधितो बृष्टिकायेन, प्राविशत् कन्दरां गिरेः॥९॥ राजीमत्यपि मेघाम्बु-बाधिता तद्गुडान्तरे । रथनेमिमजानाना, तत्रस्थं प्राविशत्तदा ॥१०॥ तमदृष्ट्वा तमिस्रेण श्रोणिनिहितचक्षुषम् । वस्त्राणि परितोऽक्षैप्सी-दुद्वाताय महासती ॥११॥ स्वर्गलोकजयायेव, साधयन्ती तपःक्रियाम् । दृष्ट्वा विवसनां तन्वीं, बभूवोत्कलिकाकुलः ॥१२॥ भ्रातुरादिना जघ्ने, तथा कामेन मर्मसु । यथा चाऽसौ पुरस्तस्या-स्तस्थावुत्तानितेक्षणः ।।१३।। आगच्छ स्वेच्छया भद्रे !, कुर्वहे सफलं जनुः । उभावपि वयःप्रान्ते, चरिष्यावस्तपोविधिम ॥१४॥ श्रुत्वेत्यश्रुत्यमव्याज-चित्ता संघीय वाससी । सती स्पष्टमभाषिष्ट, धारयित्वा च धीरताम् ॥१५॥ महानुभाव ! संरम्भः, कोऽयं ते भवकारणम् । संस्मर? स्वप्रतिज्ञातां, प्रव्रज्यां मा स्म विस्मरः ? ॥१६॥ संयती प्रतिसेवादि, यदुक्तं बोधिघातकम् । श्रीमता नेमिनाथेन, तत्तवाद्यैव विस्मृतम् ॥१७॥ १ धन-धनवत्यौ । सौधर्म मित्रदेवौ। ३ विद्याधरचित्रगतिरत्नवत्यौ । ४ ब्रह्मदे० मित्रदेवौ । ५ अपराजित-प्रीतिमत्यौ। ६ आरणे (११) मित्रदेवौ । ७ शङ्ग-यशोमत्यौ । ८ अपराजितविमाने मित्रदेवौ । ९ नेमि-राजीमत्यौ । Lain Educ a tional For Privale & Personal use only UPDorary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy