________________
कल्प
किरणावली टीका व्या०७
३०२॥
'इकुच्चिय रायमई वणियावग्गमि वणणि जगुणा । जीसे नेमी करिस्सइ लायन्ननिही करगहणं' ॥११॥ चन्द्राननाऽपि मृगलोचनामाह
'रायमईए ख्वं विहिनिम्मविअंच रंभरूबहरं । न करिज दइअमिअसं हविज्ज ता नूण मजसभरं ।।१२।। ___इतश्च-तूर्यरवमाकर्ण्य मातृगृहात् राजीमती सखीमध्ये प्राप्ता। हे सख्यौ ! भवतीभ्यामेव यथा-साडम्बरमागच्छन् | कोऽपि वरो विलोक्यते तथा अहमपि किं विलोकयतुं न लभेयम् ? इति बलात् तदन्तरे स्थित्वा नेमिमालोक्य साश्चर्य स्वगतं-किं पातालकुमारः ? किं वा मकरध्वजः ? किं वा सुरेन्द्रः ? किं वा पुण्यप्राग्भारो मूर्तिमान् ? ।
'किं तस्स करेमि अहं ? अप्पाणं बिहु निउंछणं विहिणो । निरुवमसोहग्गनिही एस पई जेण मह विहिओ'त्ति ॥१३॥
मृगलोचना राजीमत्यभिप्रायं परिज्ञाय सप्रीतिहासं-हे सखि चन्द्रानने ! समग्रगुणसम्पूर्णेऽपि वरे 'अस्ति एकं दूषणं, परं वरार्थिन्या राजीमत्याः शृण्वत्याः कथं वक्तुं शक्यते ? | चन्द्राननाऽपि-हे सखि मृगलोचने ! मयाऽपि तदवगतमेव, परं तद् दूषणभाषणं न साम्प्रतं साम्प्रतम् । राजीमत्यपि त्रपया मध्यस्थतां दर्शयन्ती-हे सख्यौ ! यस्याः कस्याऽपि भुवनाद्भुतभाग्यसौभाग्यधन्यायाः कन्याया वरोऽयं भवतु नाम परं; पाथसा पाथोधिरिव सर्वगुणानामयमेको निधिः मे मनसि प्रतिभासते, तदेतस्मिन् दूषणं-क्षीरसागरे क्षारत्वमिव, कल्पपादपे कार्पण्यमिव, चन्दनमे दौर्गन्ध्यमिव, भास्करे अन्धकारमिय, सुराऽचले चलत्वमिव, सुवर्णे श्यामत्यमित्र, पयसि पूतरजातमिव, लक्ष्म्यां दारिद्यमिय, सरस्सत्यां मौर्यमिव असम्भाव्यमेव । तदनु ताभ्यां सविनोदं निगदितं-मो राजीमति ! निरीक्षिते हिवरे गैरत्वमेव तावन् मुख्यो गुणो गीयते, अपरगुणास्तु
HECHN-C40-40-4WATML
॥३०२॥
International
For Private&Personal use only.
S
inelibrary.org