SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ NAGARAA भो देवर ! ज्ञातं, गृहनिर्वाहकातरस्त्वं स्त्रीपरिग्रहं न करोषि, परं तदयुक्तम् । यतो भ्राता ते समर्थों यथा-अस्माकं द्वात्रिंशत्सहस्रसङ्ख्याकानां निहिं कुरुते तथा-किमेकस्य भ्रातृजायाया निर्वाहं कर्तुमक्षमः ?। तथा-'ऋषभमुख्यजिनाः करपीडन, विदधिरे दधिरे च महीशताम् । बुभुजिरे विषयाँश्च बहुन् सुतान् , सुषुविरे शिवमप्यथ लेभिरे ॥८॥ स्वमसि किं नु नवोऽद्य शिवङ्गमी?, भृशमरिष्टकुमार ! गरिष्ठधीः । विमृश देव ? गृहाण गृहस्थतां, कुरु सुबन्धुम नस्सु च सुस्थताम् ॥९॥ अथ जगाद च जाम्बवती जबात , शणु पुरा हरिवंशविभूषणम् । समुनिमुवततीर्थपतिगृही, शिवमगादिह जातसुतोऽपि हि ॥१०॥ एवमन्यासामपि गोपिकानां वचांसि । ततः-गोपिकावचोयुक्त्या यदुनाम् आग्रहाच मौनावलम्बिनमपि स्मिताऽऽननं निरीक्ष्य-'अनिषिद्धमनुमतम्' इति न्यायात् 'स्वीकृतं पाणिग्रहणं नेमिना' इति ताभिनि?पितं प्रससार च, तथैव जनोक्तिः इति । ततः-कृष्णेन उग्रसेनपुत्री राजीमती मागिता, चलितश्च समुद्रविजयः अनेकनरेन्द्रपरिवृतः सर्वसामग्र्या, श्रीशिवादेवीप्रमुखप्रमदाजनेन गीयमानो नयनानन्दकारी ने मिकुमारो स्थस्थो धृतातपत्रः पाणिग्रहणाय वजन्नग्रतो वीक्ष्य सारथिं प्रति'कस्येदं कृतमङ्गलभरं धवलमन्दिरम् ?' इति पृष्टवान् । तत:-सोऽङ्गुल्याऽदर्शयत्-उग्रसेननृपस्य-तव श्वसुरस्य अयं प्रासादः। स्मितानेन च राजीमतीसख्यौ० मृगलोचना-चन्द्राननाख्ये त्वां पश्यतः । तत्र-मृगलोचना नेमिमालोक्य-हे चन्द्रानने ! RECARRERASHREE कि. २६ ॥३०१॥ Jain E u r International For Private & Personal use only (Linelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy