________________
श्रीकल्प
॥२८४॥
श्रीवीरमुक्तितः शतचतुष्टये चतुरशीति संयुक्ते (४८४) । वर्षाणां समजायत स श्रीमानार्थखपुटगुरुः ||३|| इत्यादिव्यतिकरेण श्रखपुटाचार्य-कालकाचार्य भागिनेयवलमित्रभानुमित्रादयः सर्वेऽपि एककालीना उक्ताः । तथा पर्युषण कल्पचूर्णि - निशीथचूण्यः बलभित्रभानु मित्र भागिनेयोपलक्षितः श्रीपर्युषणापर्वानेता श्रीकालकसूरिरुक्तः, तथा च गर्दै भलोच्छेदकारी पूर्वोक्ताचार्यराजसमानकालीनश्च पर्युपणानेता श्रीकालकसूरिः कथं त्रिनवतियुतनवशत (९९३) वर्षातिक्रमे सम्भवति ? इति सम्यक् पर्यालोच्यम् ।
किं च सन्देहविपपध्याम्- तेणउभनवस एहिं समइकं तेहि वद्धमाणाओ । पज्जोसवण चउत्थी कालगसूरिहिं तो विभा ॥१॥ वीसहिं दिहिं कप्पो पंचगहाणीइ कप्पठवणा य । नवसयतेणउ एहिं वुच्छिन्ना संघआणाए ॥ २ ॥ सालाहणेण रण्णा संघारसेण कारिओ भयवं । पज्जोसवणा चउत्थी चाउम्मासं चउदसीए || ३ ||
मासगपडिकणं पक्खिदिवसंमि चउन्विहो संघो । नवसयतेणउएहिं आयरणं तं पमाणंति || ४ ||
इति गाथाचतुष्टयं तीर्थोद्गाराधुक्कसम्मतिया प्रदर्शितं तीर्थोद्गारे च न दृश्यते इत्यपि विचारणीयं । यद्यपि च 'तेण अनवसर हिं' इति कालसप्ततिकायां दृश्यते । परं तत्र प्रक्षेपगाथानां विद्यमानत्वेन तदवचूर्णावव्याख्यातत्वेन च इयं गाथा च सूत्रकर्तृका इति सम्भाव्यते । तत्त्रं तु सम्यग् एतदाम्नायविद्वेद्यम् ।
इति एतत् सूत्रव्याख्याने बहुश्रुता एव प्रमाणम् इति बोध्यम् ॥ १४८ ॥
Jain Education national
इति श्रीजैनशासन सोधस्तम्भायमानमहामहोपाध्यायश्रीधर्म सागरगणिविरचितायां कल्प किरणावल्यां पष्ठं व्याख्यानं समाप्तम् ।
For Private & Personal Use Only
किरणाव टीका
व्या०
॥२८
www.janbrary.org