________________
॥२८३॥
KAAREKHA
वर्षशतस्याऽयं त्रिनातितमः (९९३) संवत्सरः कालो गच्छति इति दृश्यते । अयं भावः-नवशताऽशीति (९८०) वर्षे पुस्तकवाचना प्रवृत्ता-नवशतत्रिनवति (९९३) वर्षे च पर्षद्वावना इति ।
अन्ये तु केचन सन्देहविषौषध्यनुसारेण-'त्रिनवतियुतनवशतपक्षे तु इयताकालेन पञ्चम्याः चतुर्थी पर्युषणापर्व प्रववृते' इति व्याख्यानि परम् एतद् व्याख्यान स्थानकवृत्ति-धर्मोपदेशमालावृत्ति-पुष्पमालावृत्ति यावत् कालकाचार्यकथा-प्रभा. वरुचरित्र-पर्युषणाकल्पचूर्णि-निशीथचूर्णिप्रभृतिभिः विसंवदति । यत:-स्थामकवृत्तौ, धर्मोपदेशमालावृत्तौ, पुष्पमालावृत्ती, सर्वास्वपि कालकाचार्यकथासु, प्रभावकचरित्रे च-धरावासनगराऽधिपतेः 'वज्रसिंह'नाम्नो राज्ञः 'सुरसुन्दरी'नाम्न्याश्च तद्देव्याः पुत्रः कालक'नामा कुमारो वैराग्यात् प्रवजितो युगप्रधानत्वमापन्नः स्वभगिन्याः 'सरस्वती'नाम्याश्च साव्या उपयोपशमननिमित्तं प्रवचनमालिन्यप्रक्षालननिमित्तं च गईभिल्लोच्छेदकारी, 'बलमित्र-भानुमित्र' नाम्नो च स्वभागिनेययोः भागि ने यस्य 'बलभानो' प्रवाजनादिहेतुकाऽप्रीतिवशान्निर्गन: श्रीकालकमरिः प्रतिष्ठानपुरं प्राप्तः। तत्र सातवाहननृपो परोधेन पञ्चमीतश्चतुर्थ्यां पर्युपणापर्व व्यवस्थापितवान् । एकदा च श्रीसीमन्धरजिनप्रशंसातः चमत्कृतचेतसा शक्रेण निगोदविचार-स्वाऽऽयुःप्रश्नव्याकरणसन्तुष्टेनाऽभ्यर्चित इत्यादिव्यतिकरेण व्यावर्णितः ।
तथा प्रभावकचरित्रे पादलिप्ताचार्यसम्बन्धेस चाऽस्ति बलमित्राऽऽख्यो राजा बलभिदा समः। कालकाचार्यजामेयः सर्वश्रेयःश्रियां निधिः ॥ भवाध्वनीनभव्यानां सन्ति विश्रामभूमयः। तत्राऽऽर्यखपुटा'नाम सूरयो विद्ययोदिताः ॥२॥
॥२८३
Jain Educat e national
For Private & Personal use only
library.org