________________
॥२८५ ॥
७२
अथ सप्तमं व्याख्यानं प्रारभ्यते ।
अथ जघन्य - मध्यमोत्कृष्टवाचनाभिः श्रीपार्श्वनाथचरित्रमाह[“तेणं कालेणं' इत्यादितः 'विसाहाहिं परिनिन्कुडे' ति पर्यन्तम् ]
तत्र - (तेणं कालेणं तेणं समएणं पासे णं अरहा पुरिसादाणीए ) त्ति । तस्मिन् काले तस्मिन् समये पार्श्व नामा अर्हन्> पुरुषाऽऽदानीयः - पुरुपञ्चासौ पुरुषाऽऽकारवर्त्तितया आदानीयः - आदेयवाक्यतया पुरुषाऽऽदानीयः पुरुषप्रधान इत्यर्थः । पुरुषविशेषणं तु - 'पुरुष एव प्रायः तीर्थकर :' इति ख्यापनार्थम् । पुरुषैः वा आदानीयः - ज्ञानादिगुणतया स पुरुषाऽऽदानीयः । (पंचविसाहे होत्था । तं जहा -विसाहाहिं चुए चहत्ता गर्भ वक्कते । विसाहाहिं जाए । विसाहाहिं मुंडे भवित्ता अगाराओ अणगारियं फवइए । विसाहाहिं अणंते अणुत्तरे निव्वाघाए निरावरणे कसि पडिपुणे केवलवरणाणदंसणे समुप्पन्ने । विसाहाहिं परिनिब्बुडे) < पञ्चसु स्थानेषु यस्य विशाखा नक्षत्रम् अभवत् । तद्यथा-विशाखाभिः चन्द्रयोगे च्युतः, देवभवात् । च्युत्वा च गर्भ व्युत्क्रान्तः - उत्पन्नः । विशाखाभिः जातः । विशाखः भिः द्रव्यभावाभ्यां मुण्डितो भूला अगारात् अनगारितां साधुतां प्रत्रजितः । विशाखाभिः अनन्तम् अनुत्तरं निर्व्याघातं निरावरणं कृत्स्नं प्रतिपूर्ण केवलम् - असहायं वरं ज्ञानं च दर्शनं च समुत्पन्नम् । विशाखाभिः युक्ते चन्द्रे परि-सामस्त्येन निर्वृतः ॥ १४९ ॥ ['तेणं कालेणं' इत्यादित: 'कुच्छिसि गन्मत्ताए वकते' ति पर्यन्तं सुगमम् ]
Jain Educatioemational
For Private & Personal Use Only
॥ २८५ ॥
ibrary.org