SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २७७॥ SACARE देवभवेऽपि कल्याणं येषां वीतरागप्रायत्वात् । अत एव आगमिष्यद् भद्राणाम्-आगामिभवे सेत्स्यमानत्वात् । अथवा गतौप्राणगमनेऽपि, स्थितौ-जीवितेऽपि कल्याणं येषां 'तवनियममुट्टिआणं' इत्याधुक्तेः अभयकुमारादिवत् (उक्कोसिआ अणुत्तरोववोइयाणं संपया होत्था) < उत्कृष्टा अनुत्तरविमानेषु उत्पन्नानां सम्पद् अभवत् > ॥१४५|| ['समणस्स णं' इत्यादितः 'अंतमकासी' इति पर्यन्तम् ] तत्र-(समणस्स णं भगवओ महावीरस्स दुविहा अंतगडभूमी होत्या) < श्रमणस्य भगवतो महावीरस्य द्विविधा > अन्तकृतः-भवाऽन्तकृतः-निर्वाणयायिनः तेषां भूमिः-कालः <अभवत् > (तं जहा-जुगंतकडभूमी य परियायंतकडभूमी य) < तद्यथा-> युगानि-कालमानविशेषाः । तानि च क्रमवर्तीनि तत्साधाद् ये क्रमवर्तिनः-गुरुशिष्य-प्रशिष्यादिरूपाः पुरुषाः तेऽपि युगानि । तैः प्रमिताः अन्तकृद्भूमिः या सा युगान्तकृद्भुमिः। पर्यायः-तीर्थकरस्य केवलिवकालः तमाश्रित्य अन्तकृद्भभिः पर्यायान्तभूमिः। (जाव तच्चाओ पुरिसजुगाओ जुर्गतकडभूमी) ति अत्र पञ्चमी द्वितीयार्थे यावत् तृतीयपुरुष एव युगं तृतीयपुरुषयुग-प्रशिष्यं जम्बूस्वामिनं यावद् इत्यर्थः । वीरादारभ्य तृतीयपुरुषयुगं यावत् साधवः सिद्धाः । श्रीवीरः सुधर्मा जम्बूश्चेति । ततः सिद्धिगतिच्छेदः (चउवासपरियाए अंतमकासी) त्ति चतुर्वर्षपर्याये-केवलिपर्यायापेक्षया भगवति जिने सति अन्तं-भवान्तम् अकार्षीत् । तत्तीर्थे केवली सम्बपि साधुः न आरात् कश्चिन्मोक्षं गतः किन्तु भगवतः केवलोत्पत्तेश्चतुर्पु वर्षेषु गतेषु सिद्धिगमनाऽऽरम्भः ॥१४६॥ ['तेणं कालेणं' इत्यादितः 'सव्वदुक्खप्पहीणे ति पर्यन्तम् ] REKAHAASAN ७० ॥२७७॥ Jain Edu wwdothelibrary.org c For Private & Personal Use Only ational
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy