________________
किरणावरू टीका व्या०६
-
-
-
श्रीकल्प-13 प्राप्नोति अन्येषां च ज्येष्ठतरो भवति तदा तवैवाऽभ्युदयस्ततो न त्वयाऽस्य विघ्नो विधेय' इत्यादि-
लक्षणया उपस्थापना-व्रतारोपणा कार्या। ॥ ८॥
अथ प्रज्ञाप्यमानोऽपि यदि न प्रतिपद्यते तदा प्रतीक्षणीयं यावदसौ प्राप्नोति । द्वये राजादयो युगपद यदा तुपस्थाप्यन्ते तदा यथाऽसन्नं ज्येष्ठता ॥ इति ज्येष्ठकल्पः सप्तमः ।।
तथा प्रतिक्रमणं--पविधाऽऽवश्यककरणं । तच्चाऽतिचारो भवतु मा वा पुनरुभयसन्ध्यमवश्यं कर्तव्यमिति प्रथमचरमतीर्थकृत्तीर्थयोः साधुनां सप्रतिक्रमणश्चारित्रधर्मः । शेषाणां तु समुत्पन्ने प्रतिक्रमणाऽहें कारणे प्रतिक्रमणं नाऽन्यथा ॥ इति प्रतिक्रमणकल्पोऽष्टमः ॥
तथा प्रथमाऽन्तिमतीर्थकरयोस्तीर्थे मासकल्पः स्थित एव । प्रतिबन्धादिदोषसम्भवात् । यदाह
'पडिबंधो लहुअत्तं न जणुवयारो न देसविनाणं । नाऽऽणाराहणमेए दोसा अविहारपक्खम्मि ॥ त्ति । (पञ्चा० ८३०) प्रतिबन्धः-शरयातरादिवस्त्वभिष्वङ्गः । लघुत्वं च-कथमेते स्वगृहं परित्यज्याऽन्यगृहेषु व्यासक्ताः' । अनुपकारश्च-विचित्रदेशस्थित जनानामुपदेशदानाऽभावेन । 'न देसविनाणं' ति । न-नैव देशेषु-विविधमण्डलेषु सञ्चरतां यद्विज्ञान-विचित्रलोकालोकोत्तरज्ञानं । 'नाऽऽणाराहणं'ति । नाऽऽज्ञाराधना | आज्ञा चैवं
'मोत्तण मासकप्पं अण्णो सुत्तमि नस्थि उ विहारो'त्ति । (पश्चवस्तु गा० ८९६) एते दोषा अविहारपक्षे । कदाचित् ।।
-
RECORROCEACOCOCOGES
॥
॥८
॥
Jain Educ
a
tional
For Privale & Personal use only
wiafaelibrary.org